________________
%
%
प्रवासा
रोदारे तत्त्वज्ञा
नवि० ॥२४१॥
तथैकवतातिक्रमे सर्वव्रतातिक्रम इति यदुक्तं तदपि विवक्षया, सा चेयं-"छेयस्स जाव दाणं ताव अइक्कमइ नेव एगपि । एगं अइ-1 १२३ शीकमंतो अइकम्मे पंच मूलेणं ॥१॥" [छेदस्य यावदानं तावदतिक्राम्यति नैवैकमपि । एकमतिकाम्यन अतिक्राम्यति पञ्च (शोधिश्च ) लाङ्गसहमूलेन ॥ १॥] एवमेव हि दशविधप्रायश्चित्तविधानं सफलं स्यात् , अन्यथा मूलायेव तत्स्यात् , व्यवहारनयतश्चातिचारसम्भवः निश्च
४स्राणि १८ यतस्त्वसर्वविरततया भङ्ग एवेति पर्याप्तं प्रपञ्चेनेति ॥ ८३९ ॥ कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादश सहस्राणि भवन्तीत्याह
गा.८३९. 'जोए' इत्यादि, योगे-करणादिव्यापारे विषयभूते करणे-योगस्यैव साधकतमे मनःप्रभृतिके, संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति, तत्र संज्ञासु-चेतनाविशेषरूपासु आहारादिषु इन्द्रियेषु-अक्षेषु श्रोत्रादिषु भूम्यादिषु-पृथिव्यादिजीवकायेष्वजीवकाये च श्रमणधर्मे चक्षान्त्यादौ शीलाङ्गसहस्राणां प्रस्तुतानामष्टादश परिमाणमस्य वृन्दस्येत्यष्टादशकं तस्य निष्पत्तिः-सिद्धिर्भवति ॥ ८४० ॥ योगादीनेव व्याख्यातुमाह-करणाईति विभक्तिलोपात्करणादयः-करणकारणानुमतयस्त्रयो योगा भवन्ति, तथा मनआदीनि तु-मनोवचनकायरूपाणि पुनर्भवन्ति-स्युः करणानि त्रीण्येव, तथा आहारादयः-आहारभयमैथुनपरिग्रहविषया वेदनीयभयमोहनीयवेदमोहनीयलोभकषायोदयसम्पाद्या अध्यवसायविशेषरूपाः, 'चउ'त्ति चतस्रः संज्ञा भवन्ति, तथा श्रोत्रादीनि-पश्चानुपूर्व्या श्रोत्रचक्षुर्घाणरसनस्पर्शनानीन्द्रियाणि पश्च भवन्ति, उत्तरोत्तरगुणावाप्तिसाध्यानि शीलागानीति ज्ञापनार्थमिन्द्रियेषु पश्चानुपूर्वीति, तथा भूम्यादयः-पृथिव्यप्तेजोवायुव|नस्पतिद्वित्रिचतुःपञ्चेन्द्रिया नव जीवा-जीवकायाः, अजीवकायस्तु-अजीवकायः पुनर्दशमो यः परिहार्यतयोक्तः स च महामूल्यवस्त्रपात्रसुवर्णरजतादिरूपो दुष्प्रत्युपेक्षिताप्रत्युपेक्षितदूष्यपुसकचर्मणपञ्चकादिरूपश्च, तथा श्रमणधर्मस्तु-यतिधर्मः पुनः क्षान्त्यादि:-क्षा
॥२४१॥ न्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपो दशविध इति, 'एवं'ति एवमुक्तन्यायेन 'स्थिते' औत्तराधर्येण पट्टकादौ
AMARRA
Jain Education Inter
n
a
For Private & Personel Use Only
Himww.jainelibrary.org