SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जे मद्दवुजुत्ता २, धन्ना जे अजवुजुत्ता ३, एवं यावद्धन्ना जे बंभगुणजुत्ता', इत्यादि ।। ८४४ ॥ ८४५ ॥ ८४६ ॥ १२३ । इदानीं 'नयसत्तगं'ति चतुर्विशत्युत्तरशततमं द्वारमाह नेगम १ संगह २ ववहार ३ रिज्जुसुए ४ चेव होइ बोवे । सद्दे ५ य समभिरूढे ६ एवंभूए ७ य मूलनया ॥ ८४७ ॥ एक्केको य सयविहो सत्त नयसया हवंति एवं तु । बीओवि य आएसो पं चेव सया नयाणं तु ॥ ८४८॥ अनेकधर्मकं वस्त्वनवधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रतिपाद्य स्वबुद्धिं नीयते-प्राप्यते येनाभिप्रायविशेषेण स ज्ञातुरभिप्रायविशेषो नयः, अयमत्र तात्पर्यार्थः-इह यो नाम नयो नयान्तरसापेक्षतया स्याद्वादलान्छितं वस्तु प्रतिपद्यते स परमार्थतः परिपूर्ण | वस्तु गृह्णातीति प्रमाण एवान्तर्भवति, यस्तु नयवादान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेणानवधारणपूर्वकं वस्तु परिच्छेत्तुमभिप्रेति स वस्त्वे कदेशपरिग्राहकत्वान्नय इत्युच्यते, स च नियमान्मिथ्यादृष्टिरेव, अयथावस्थितार्थवस्तुपरिप्राहकत्वात् , अत एवोक्तमन्यत्र 'सब्वे नया | मिच्छावाइणो'त्ति [सर्वे नया मिथ्यावादिनः] यत एव च नयवादो मिथ्यावादः तत एव च जिनप्रवचनवेदिनो मिथ्यावादित्वपरिजिहीर्षिया सर्वमपि स्यात्कारपुरस्सरं भाषन्ते न तु जातुचिदपि स्यात्कारविरहितं, यद्यपि च लोकव्यवहारपथमवतीर्णा न सर्वत्र सर्वदा साक्षा स्यात्पदं प्रयुजते तथापि तत्राप्रयुक्तोऽपि सामर्थ्यात् स्याच्छब्दो द्रष्टव्यः, प्रयोजकस्य कुशलत्वात् , उक्तं च-अप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधेऽन्यत्रापि, कुशलश्चेत्प्रयोजकः॥१॥” अत्र 'अन्यत्रापी'ति अनुवादातिदेशादिवाक्येषु । ते च नया मूलभेदापेक्षया सप्त, तथा चाह-नेगमे त्यादि नैगमः संग्रहो व्यवहार ऋजुसूत्रश्चैव भवति बोद्धव्यः शब्दश्च समभिरूढ एवंभूतश्चेति मूल नया 462525A425A4-%%* Jain Educhlar RIMI For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy