SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञा नवि० ॥ २४० ॥ भवे जहन्त्रेणं एगम्मि आगरिसे उक्कोसेणं सहस्त्रपुहुत्तंवारा, एवं सम्मत्तस्सवि, देसविरईए य सव्वविरईए य पुण जहन्त्रेण एकम्मि, उक्कोसेणं सयपुहुत्तंवारा" इति ॥ ८३७ ॥ अथ नानाभवगतान् प्रतिपादयति — तिण्ह असंखसहस्सा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायव ॥ ८३८ ॥ 'ति०हं' इत्यादि, त्रयाणां - सम्यत्त्वश्रुतदेशविरति सामायिकानां नानाभवेष्वाकर्षाणामुत्कर्षतो भवन्त्यसङ्ख्येयानि सहस्राणि यतस्त्रयाणामप्येकस्मिन् भवे सहस्र पृथक्त्वमाकर्षाणामुक्तं, भवाश्च क्षेत्रपल्योपमासङ्ख्येयभागगतनभः प्रदेशतुल्याः 'संमत्तेदसविरया पलियस्सासंखभागमेत्ता उ ।' [ सम्यक्त्व देशविरताः पल्यस्यासंखभागमात्रा एव ] इति वचनात् ततः सहस्रपृथक्त्वं तैर्गुणितमसङ्ख्येयानि सहस्राणि भवन्ति, सहस्रपृथक्त्वं च नानाभवेष्वाकर्षाणामुत्कर्षतो भवति विरते:- सर्वविरतेः, तस्या हि खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं भवाचाष्टौ ततः शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवति, एतावन्तो नानाभवेष्वाकर्षा भवन्ति ज्ञातव्याः, अन्ये पठति — 'दोह सहस्समसंखा' इति, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानन्तरीयकत्वादनुक्तमपि प्रतिपत्तव्यं, सामान्यश्रुतस्य त्वक्षरात्मकस्य नानाभवेष्वाकर्षा अनन्तगुणा इति १२२ ।। ८३८ ।। इदानीं 'सीलिंगद्वारससहस्स' त्ति त्रयोविंशत्युत्तरशततमं द्वारमाह— सीलिंगाण सहस्सा अट्ठारस एत्थ हुंति नियमेणं । भावेणं समणाणं अक्खंडचरित्तजुत्ताणं ॥ ८३९ ॥ जोए ३ करणे ३ सन्ना ४ इंदिय ५ भोमाइ १० समणधम्मे य १० । सीलिंगसहस्साणं अट्ठारगस्स निष्पत्ती ॥ ८४० ॥ करणाइँ तिन्नि जोगा मणमाईणि हवंति करणाई | आहाराई Jain Education International For Private & Personal Use Only 1-৬6--06 १२२ आ कर्षाः १२३ शीलांगानि गा. ८३६__८४६ ॥ २४० ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy