SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ SALORE CACACCHENGAROO क्षणा क्रिया भवति, एषा हुः-स्फुटमैर्यापथिकी क्रिया त्रयोदशीति १२१ ।। ८३४ ।। ८३५ ॥ इदानीं 'आगरिसा सामाईए चउविहेवि एगभवे' इति द्वाविंशत्युत्तरशततमं द्वारमाह सामाइयं चउद्धा सुय १ दंसण २ देस ३ सब ४ भेएहिं । ताण इमे आगरिसा एगभवं पप्प भणियवा ॥ ८३६ ॥ तिण्ह सहस्स पुहुत्तं च सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायवा ॥ ८३७॥ 'सामे'त्यादि गाथाद्वयं, समो-रागद्वेषयोरपान्तरालवर्ती मध्यस्थः, 'इण् गतौ' अयनं अयो गमनमित्यर्थः समस्य अयः समायः-समीभूतस्य सतो मोक्षाध्वनि प्रवृत्तिः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् स्वार्थिक इकणप्रत्ययः, एकान्तोपशान्तगमनमिति भावः, द तच्चतुर्धा-चतुर्भेदं श्रुतदर्शनदेशसर्वलक्षणैर्भेदैः, श्रुतसामायिकं सम्यक्त्वसामायिकं देशविरतिसामायिकं सर्वविरतिसामायिकं चेत्यर्थः, तेषांटू च चतुर्णामप्येते-वक्ष्यमाणा आकर्षा एकं भवं उपलक्षणत्वान्नानाभवांश्च प्राप्य-आश्रित्य भणितव्याः, तत्र आकर्षणमाकर्षः-प्रथमतयां मुक्तस्य वा ग्रहणमित्यर्थः, ते च द्विधा-एकभविका नानाभविकाश्च ।। ८३६ ।। तत्र प्रथमत एकभविकानाह-'तिण्हे'त्यादि, त्रयाणांसम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानामेकभवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो भवति, विरते:-सर्वविरतेस्त्वेकभवे शतपृथक्त्वमाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, एवमेतावन्त उत्कर्षत एकभवे आकर्षा भवन्ति ज्ञातव्याः, परतस्तु प्रतिपातोऽलाभो वा, जघन्यतः पुनश्चतुर्णामपि सामायिकानामेक एवाकर्ष एकस्मिन् भवे भवति, उक्तं चावश्यकचूर्णी-सुयसामाइयं एग SALMASACRECAUSERCANEM. Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy