________________
प्रव० सा०
| निषेधादिपरिग्रहः १० ॥ ८३० ॥ एकादशमं क्रियास्थानमाह-'एगारे'त्यादि, एकादशं माया-मायाक्रियास्थानं यथा हृदये-मनसि ||१२१ किरोद्धारे
अन्यत्-वचःक्रियाविलक्षणं वाचि-वचसि अन्यत्-मनःक्रियाविलक्षणं अन्यच्च वाड्मानसविसंवादि आचरति-करोति, कथम्भूतः सन् ?तत्त्वज्ञा
यास्थानवि०
नानि Pl'गूढसामर्थ्यः' गूढे-गोपने सामर्थ्य-शक्तिविशेषो यस्य स तथा, केन कृत्वा ?–स्वकर्मणा' निजचेष्टितेनाकारेजितादिना, मायाप्र
त्यया एषा क्रियेति ११ ॥ ८३१॥ द्वादशं क्रियास्थानमाह-'एत्तो' इत्यादि, इत:-ऊर्द्ध पुनर्लोभप्रत्यया क्रिया इयं-वक्ष्यमाणा, यथा ॥२३९॥
सावद्यारम्भाः-प्राण्युपमर्दादिना सपापव्यापारा ये परिग्रहा-धनधान्यादिरूपास्तेषु महत्सु-गुरुषु सक्तो-गाढतराकाङ्क्षायुक्तः, तथा स्त्रीषु -युवतिषु कामेषु च-मनोज्ञरूपरसगन्धस्पर्शशब्दस्वरूपेषु गृद्धः-अत्यन्तमभिसक्तः, तथाऽऽत्मानमपायेभ्यो गाढादरेण रक्षन् अन्येषां सत्त्वानां-प्राणिनां वधबन्धनमारणानि-लगुडादिहननरज्ज्वादिसंयमनप्राणव्यपरोपणलक्षणानि करोति एषा इह-सिद्धान्ते लोभप्रत्ययालोभनिबन्धना क्रियेति ॥ १२ ॥ ८३२-८३३ ॥ त्रयोदशं क्रियास्थानमाह-अतो-लोभक्रियानन्तरमैर्यापथिकी क्रियां प्रवक्ष्यामि, तत्र ईरणमीर्या-गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यः केवलयोगप्रत्यय उपशान्तमो. हादित्रयस्य सातवेदनीयकर्मबन्धः सा ऐर्यापथिकी, इह खल्वनगारस्य साधोः समितिषु-ईर्यासमित्यादिषु गुप्तिषु-मनोगुप्त्यादिषुसु गुप्तस्यसुसंवृतस्य सततमेवाप्रमत्तस्योपशान्तमोहक्षीणमोहसयोगकेवलिलक्षणगुणस्थानकत्रयवर्तिनः, अन्येषां तु अप्रमत्तानामपि कषायप्रत्ययकर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धासम्भवान्नाप्रमत्तशब्देनात्र ग्रहणं, भगवतः-पूज्यस्य यावच्चक्षुःपक्ष्मापि निपतति-स्पन्दते, इदं च |॥ २३९॥ योगस्योपलक्षणं, ततोऽयमर्थः-यावच्चक्षुर्निमेषोन्मेषमात्रोऽपि योगः सम्भवति तावत्सूक्ष्मा-एकसामयिकबन्धत्वेनात्यल्पा सातबन्धनल
USARACTEXASISAMACHCOMS
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org