________________
चिदपराधे कृते समप्रमपि ग्रामं यन्मारयति एष वा दृष्टिविपर्यासदण्ड इति, यद्वा अस्तेनमपि स्तेनोऽयमितिकृत्वा हन्यादित्येष || दृष्टिविपर्यासः पञ्चमं क्रियास्थानमिति ५ ॥ ८२३ ॥ ८२४ ॥ अथ षष्ठं क्रियास्थानमाह-'अत्तट्टे'त्यादि, आत्मार्थ परेषां वानायकादीनामय यो मृषा वदति स एष मृषाप्रत्ययिको-मृषाकारणिको दण्डः षष्ठो भवति ६ ॥ ८२५ ॥ सप्तमं क्रियास्थानमाह-एमेवे'त्यादि, 'एवमेव' मृषावाददण्डवदात्मनायकार्थ-आत्मनः परेषां वा नायकादीनां निमित्तं 'नाइग'त्ति पाठे तु ज्ञात्यर्थ-वजनार्थ यो गृहात्यदत्त-अन्येनावितीर्णमेषोऽदत्तवर्ती अदत्तदण्डक्रियावानित्यर्थः ७ ॥ ८२६ ॥ अयं पुनर्वक्ष्यमाणो भवति आध्यात्मिको दण्डः, अध्यात्म-मनस्तत्र भवो बाह्यनिमित्तानपेक्षः शोकोऽभिभव इति भावः, तमेवाह-नवी'त्यादि, यस्य सम्मुखं न कोऽपि किञ्चिदप्यनिष्टं जल्पति, तथापि हृदयेन-मनसा कृत्वा किञ्चिदतिशयेन दुर्मना:-कालुष्यभाग्भवति तस्याध्यात्मिकी क्रिया 'सीसइत्ति कथ्यते, | तस्य चाध्यात्मिकक्रियास्थानस्य इमानि वक्ष्यमाणानि चत्वारि 'स्थानानि' कारणानि भवन्ति, तान्येवाह-'कोहो' इत्यादि, क्रोधो है मानो माया लोभश्चेत्येतानि चत्वारि कारणान्यध्यात्मक्रियायां भवन्तीति, बाह्यनिमित्तानपेक्षमाभ्यन्तरनिष्कारणक्रोधादिसमुद्भूतं दौर्मनस्यDIमाध्यात्मिकक्रियेति तात्पर्यार्थः ८ ॥ ८२७ ॥ नवमं क्रियास्थानमाह-'जो पुणे त्यादि, यः पुनर्जातिमदादिना-जातिकुलरूपबलश्रुततदापोलाभैश्वर्यमदलक्षणेनाष्टविधेन मानेन मत्तः सन् परं आत्मव्यतिरिक्तं हीलयति-जात्यादिभिर्निन्दति निकृष्टोऽयमित्यादिवचनैः परिभवत्य
नेकाभिः कदर्थनाभिर्मानप्रत्यया एषा क्रियेति ९॥ ८२८-८२९ ॥ दशमं क्रियास्थानमाह-माई'त्यादि, यः पुनर्मातापितृस्वजनादीनामल्पेऽप्यपराधे तीनं दण्डं कुरुते दहनाङ्कनबन्धताडनादिकं तन्मित्रद्वेषवर्तिक्रियास्थानं, अमित्रक्रियेत्यर्थः, भवेदशमं क्रियास्थानमिति, तत्र दहनं-उल्मुकादिमिर्दम्भनं अङ्कनं-ललाटादिषु चिह्नकरणं बन्धो-रज्ज्वादिभिर्नियत्रणं ताडनं-कशादिभिराहननं, आदिशब्दादनपान
Jain Education in
For Private & Personal Use Only
TWIdww.jainelibrary.org