SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 66 Jain Education International चउदस दस य अभिन्ने नियमा सम्मं तु सेसए भयणा । महओहिविवज्जासे होइ हु मिच्छं न सेसेसु ॥ ८०९ ॥ यस्य साधोश्चतुर्दश पूर्वाणि यावद्दश च पूर्वाणि अभिन्नानि - परिपूर्णानि सन्ति तस्मिन्नियमात् - निश्चयेन सम्यक्त्वं भवति, शेषे -किविदूनदशपूर्वधरादौ भजना - विकल्पना, सम्यक्त्वं वा स्यान्मिथ्यात्वं वेत्यर्थः, तथा मतेरवधेश्च विपर्यासे-मत्यज्ञाने विभङ्गज्ञाने च सति हु-निश्चयेन मिथ्यात्वं भवति, मिथ्यात्ववशादेव हि मतिज्ञानावधिज्ञानयोर्विपर्याससद्भावः, श्रुतज्ञानस्य तु विपर्यासो दर्शित एव, 'सेसए भयण'त्ति वचनात् शेषयोस्तु मनः पर्यवज्ञानकेवलज्ञानयोर्मिथ्यात्वं न भवत्येवेति ११३ ।। ८०९ ।। इदानीं 'जे निग्गंथावि चउगइय'त्ति चतुर्दशोत्तरशततमं द्वारमाह चउदस ओहि आहारगावि मणनाणि वीयरागावि । हुंति पमायपरवसा तयणंतरमेव चउगइया ॥। ८१० ।। सर्वत्र सूचामात्रत्वात्सूत्रस्य 'चउदस' त्ति चतुर्दशपूर्वधरा अपि तथा अवधिज्ञानिनोऽपि तथा आहारका अपि - आहारकलब्धिमन्तोऽपि, चतुर्दशपूर्विणोऽपि केचिदाहारकलब्धिमन्तो न भवन्तीत्याहारकग्रहणं, तथा मनः पर्यवज्ञानिनोऽपि तथा वीतरागा अपि-उपशान्तमोहा अपि, क्षीणमोहानां त्वप्रतिपातित्वान्न ग्रहणं, 'प्रमादपरवशाः' विषयकषायादिकलुषीकृतचेतसः सन्तस्तदनन्तरमेव-तद्भवानन्तरमेव चतुर्गतिका - नारक तिर्यग्मनुष्यदेवलक्षणगतिचतुष्टयभाजो भवन्तीति ११४ ॥ ८१० ।। इदानीं 'खेत्ताईयं' ति पञ्चदशोत्तरशततमं द्वारमाहजमणुग्गए रविंमि अतावखेत्तंमि गहियमसणाइ । कप्पइ न तमुवभोत्तुं खेत्ताईयत्ति समउत्ती For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy