SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ उपलक्षणमेतदतिगुपिले वा वनगहने स्थाप्यते, एवमेषोऽपि, अन्यथा प्रवचनहीलनाप्रसक्तिः आज्ञादिभङ्गदोषप्रसङ्गश्च, केवलमस्यापि | ४. यत्कृत्यं तत्सर्वमपि स्थविराः कुर्वन्तीति ११० ॥ ७९७ ।। इदानीं 'जंमुलं जइकप्पं वत्थंति एकादशोत्तरशततमं द्वारमाह मुल्लजुयं पुण तिविहं जहन्नयं मज्झिमं च उक्कोसं । जहन्नेणऽट्ठारसगं सयसाहस्सं च उक्कोसं ॥७९७॥ दो साभरगा दीविचगा उ सो उत्तरावहो एको। दो उत्तरावहा पुण पाडलिपुत्तो हवइ एक्को ॥ ७९८ ॥ दो दक्षिणावहा वा कंचीए नेलओ स दुगुणाओ। एक्को कुसुमनगरओ तेण पमाणं इमं होइ ॥ ७९९ ॥ 'मुल्ले'त्यादि गाथात्रयं, मूल्ययुक्तं पुनर्वस्त्रं त्रिविधं भवति-जघन्यं मध्यममुत्कृष्टं च, तत्र जघन्येन-जघन्यतोऽष्टादशकं यस्याष्टादश रूपका नाणकविशेषा मूल्यं तज्जघन्यं वस्त्रमित्यर्थः, शतसाहस्रं च-रूपकलक्षमूल्यमुत्कृष्टं, शेषं तु मध्यममिति, तत्रेह त्रिविधमपि मूल्ययुक्तं वस्त्रं साधूनां ग्रहीतुं न कल्पते, किन्त्वेतस्मादृष्टादशरूपकलक्षणान्मूल्याद्यन्यूनमूल्यं तदेव कल्पते, उक्तं च पञ्चकल्पबृहभाष्ये-ऊणगअट्ठारसगं वत्थं पुण साहुणो अणुन्नायं । एत्तो वइरित्तं पुण नाणुन्नायं भवे वत्थं ॥ १॥" [ऊनाष्टादशकं वस्त्रं पुनः साधूनामनुज्ञातं । इतो व्यतिरिक्तं पुनर्नानुज्ञातं भवेद्वस्त्रम् ॥१॥] ॥ ७९७ ।। नन्विदं केन रूपकेण प्रमाणमित्याह-'साभरे'त्यादि, साभरको नाम रूपकः, ततो द्वीपस्थानसत्काभ्यां द्वाभ्यां साभरकाभ्यामुत्तरापथे एकः स साभरको भवति, द्वीपश्च यः सुराष्ट्रामण्डले | दक्षिणस्यां दिशि योजनमात्रं समुद्रमवगाह्य तिष्ठति सोऽत्र गृह्यते, द्वाभ्यां च उत्तरापथाभ्यां-उत्तरापथसम्बन्धिभ्यां साभरकाभ्यां पाटलीपुत्रनगरसत्क एक: साभरक इति, अनेन रूपकेण वस्त्रप्रमाणमत्र कर्तव्यं ॥ ७९८ ॥ अथ प्रकारान्तरेण रूपकस्वरूपमाह Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy