SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० 'पंडए' इत्यादिश्लोकद्वयं, पण्डको वातिकः डीवः कुंभी ईर्ष्यालुः शकुनिस्तत्कर्मसेवी पाक्षिकापाक्षिकः सौगन्धिक आसक्तश्च दश एते नपुंसकाः सष्टिचित्ता इति साधूनां प्रव्राजयितुमकल्प्या व्रतायोग्या इत्यर्थः, सङ्कुिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरमहादाहसमानका माध्यवसायसम्पन्नत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयं, उभयसेविनो होते इति ॥ ७९३ ॥ ७९४ ॥ - ॥ २३१ ॥ तत्र पण्डकस्य लक्षणं–महिलासहावो सरवन्नभेओ, मिंढं महंतं मया य वाणी । ससद्दयं मुत्तमफेणयं च, एयाणि छप्पंडगलक्खणाणि ४ ॥ १ ॥ इति वृत्तादवसेयं, अस्य व्याख्या - पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणं, तथाहि - गतिस्त्रस्तपदाकुला मन्दा च भवति सशङ्कं च पृष्ठतोऽवलोकमानो गच्छति शरीरं च शीतलं मृदु च भवति योषिदिवानवरतं हत्थोल्लकान् प्रयच्छन् उदरोपरि तिर्यव्यवस्थापितवामकरतलस्योपरिष्टादक्षिणकर कूर्परं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहू च विक्षिपन् भाषते अभीक्ष्णं च कटिहस्तकं ददाति प्रावरणाभावे स्त्रीवद् बाहुभ्यां हृदयमाच्छादयति भाषमाणश्च पुनः पुनः सविभ्रमं भ्रूयुग्ममुत्क्षिपति केशबन्धनप्रावरणादिकं च स्त्रीवत्करोति योषिदाभरणादिपरिधानं च बहुमन्यते स्नानादिकं च प्रच्छन्ने समाचरति पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति स्त्रीसमाजे तु निःशङ्कः प्रमदाजनोचितं च रन्धनकण्डनपेषणादिकं कर्म विदधाति इत्यादिमहिलास्वभावत्वं पण्डकलक्षणं १ तथा 'स्वरवर्ण| भेदः स्वरः - शब्दो वर्णः - शरीरसम्बन्धी उपलक्षणत्वाद्गन्धरसस्पर्शाच स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः २-३ मेहनंपुरुषचिह्नं महद्भवति ४ मृद्वी च वाणी ललनाया इव जायते ५ तथा स्त्रिया इव सशब्दं मूत्रं जायते फेनरहितं च तद्भवति ६ एतानि षट् पण्डकलक्षणानि १ । तथा वातोऽस्यास्तीति वातिकः यः स्वनिमित्ततोऽन्यथा वा मेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुं न शक्नोति २ तथा क्लीब:- असमर्थः, स चतुर्धा दृष्टिशब्दाश्लिष्टनिमन्त्रणालीबभेदात्, तत्र यो विवस्त्राद्यवस्थं विपक्षं वीक्ष्य । Jain Education For Private & Personal Use Only १०८ दीक्षानर्हाः स्त्रियः १०९ नपुं सकाः गा. ७९२ ७९४ ॥ २३१ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy