________________
एवावबद्धकः, सोऽपि न दीक्षाहः कलहादिदोषसम्भवात् १६ । तथा रूप्यकादिमात्रया वृत्त्या धनिनां गृहे दिनपाटिकादिमात्रेण तदादेशकरणाय प्रवृत्तो यः स भृतकः, सोऽपि न दीक्षोचितः, यस्यासौ वृत्तिं गृह्णाति स दीक्ष्यमाणे तस्मिन् महतीमप्रीतिमादधाति १७॥ तथा शैक्षस्य-दीक्षितुमिष्टस्य निस्फेटिका-अपहरणं शैक्षनिस्फेटिका तद्योगाद् यो मातापित्रादिमिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि न दीक्षोचितः, मातापित्रादीनां कर्मबन्धसम्भवात् अदत्तादानादिदोषप्रसङ्गाच्च १८ । इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानही भेदा इति १०७ ॥ ७९१ ॥ इदानीं 'वीसं इत्थीसुन्ति अष्टोत्तरशततमं द्वारमाह
जे अट्ठारस भेया पुरिसस्स तहित्थियाएँ ते चेव । गुविणी १ सवालवच्छा २ दुन्नि इमे इंति
अन्नेवि ॥ ७९२॥ येऽष्टादश भेदाः पुरुषेष्वदीक्षणा उक्तास्तथा तेनैव प्रकारेण स्त्रियोऽपि त एव भेदा अष्टादश विज्ञेयाः, अयमर्थः-यथा पुरुषाकारवतस्तथा स्त्रीजनाकारवतोऽपि बतायोग्या बालादयोऽष्टादश भेदास्तावन्त एव, अन्यावपि द्वाविमौ भवतः, यथा गुर्विणी-सगर्भा सह बालेन-स्तनपायिना वत्सेन वर्तते सा सबालवत्सा, एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः, दोषा अप्यत्र पूर्ववद्वाच्याः १०८॥ ७९२ ॥ इदानीं 'दस नपुंसेसु' इति नवोत्तरशततमं द्वारमाह
पंडए १ वाइए २ कीवे ३, कुंभी ४ ईसालुयत्ति य ५। सउणी ६ तक्कमसेवी ७ य, पक्खियापक्खिए ८ इय ॥ ७९३ ॥ सोगंधिए य ९ आसत्ते १०, दस एते नपुंसगा। संकिलिहित्ति साहूणं, पवावे अकप्पिया ॥७९४ ॥
For Private Personal Use Only
www.jainelibrary.org