SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 灿 त्कर्मणि वुन्, यथा पादहारक इत्यत्र, तानि च वैक्रियशरीरापेक्षयाऽत्यन्तशुभानि स्वच्छस्फटिकशिलाश कलवदतिशुभ्र पुद्गलसमूहघटनात्मकानि पर्वतादिभिरप्यप्रतिहतानि तत्रैतानि कदाचिल्लोके सर्वथा न भवन्त्येव, ततोऽभवनलक्षणमन्तरमेषाम् - आहारकशरीराणां जघन्यत एकः समयः उत्कर्षतः षण्मासाः उक्तं च – “आहारगाई लोए छम्मासा जा न होंतिवि कथाई । उक्कोसेणं नियमा एकं समयं जहनेणं ॥ १ ॥" [ आहारकशरीराणि लोके षण्मासान् यावन्न भवन्त्यपि कदाचित् । उत्कर्षेण नियमात् एकं समयं जघन्येन ॥ १ ॥ ] यत्पुनर्जीवसमासादिषु -- ' आहारमिस्साजोगे वासपुहुत्तं' इत्यादिवचनत आहारकमिश्रस्य वर्षपृथक्त्वमन्तरमुक्तं तन्मतान्तरं संभाव्यते इति यदापि भवन्ति तदापि जघन्यत एकं द्वे त्रीणि वा उत्कर्षतः सहस्रनवकं अवगाहना चाहारकशरीरस्य जघन्यतो देशोना किश्चिदूना रत्नि:-हस्तः, तथाविधप्रयत्नभावतस्तथाऽऽरम्भकद्रव्य विशेषतश्च प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् न ह्यौदारिकादेरिवाकुलासङ्ख्येयभागमात्रता प्रारम्भकाले इति भावः, उत्कर्षतः पुनः परिपूर्णा रत्निः, उक्तं च समवायाङ्गे– “आहारगसरीरस्स जहन्नेणं देसूणा रयणी, उक्कोसेणं पडिपुण्णा रयणी" ति ॥ ८० ॥ साम्प्रतमेकजीवस्य सर्वभवेष्वेकभवे च कियन्त्याहारकशरीराणि भवन्तीत्येतत्प्रतिपादनायाह - ' चत्तारी'त्यादि, चतुर्दशपूर्वधरः संसारे निवसन्नुत्कर्षतोऽपि वारचतुष्टयमेवाहारकशरीरं करोति, चतुर्थवेलायां कृते तद्भव एव मुक्तत्यवाप्तेरिति भावः, एकस्मिंस्तु भवे वारद्वयमेवेति ॥ ८१ ॥ अथ चतुर्दशपूर्वधरोऽपि किमर्थमाहारकशरीरमारचयति ?, उच्यते, तीर्थकरपादपीठोपकण्ठगमनाय तदपि किंनिमित्तमित्यत आह- 'तित्थयरे' त्यादि, तीर्थकरर्द्धिसंदर्शनार्थं अर्थावग्रहणहेतोर्वा यद्वा संशयव्यवच्छेदार्थ जिनपादमूले चतुर्दश पूर्वविदो गमनं भवति, इदभैदम्पर्यमत्र-सकलत्रैलोक्यातिशायिनीमष्टमहाप्रा तिहार्यादिकामनुपमामाईतीं समृद्धिमखिलामा लोकयितुमुत्पन्न कुतूहलस्तथाविधान् वा नवनवार्थसार्थान् जिघृक्षुः अथवा कस्मिंश्चिदर्थेऽत्यन्तगहने संदि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy