SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ नसहस्रदशकं - दश योजनसहस्राणि विस्तीर्णा भवन्ति, मध्ये - उदरप्रदेशे पुनः शतसहस्रं - योजनलक्षं विस्तीर्णाः, तथा तावन्मात्रं - योज - नलक्षमात्रमवगाढा - भूमौ प्रविष्टाः, इदमुक्तं भवति - चत्वारोऽप्येते पातालकलशा एकैकं योजनलक्षमुद्वेधेन, तथा मूले दश योजनसहस्राणि विष्कम्भेन, तत ऊर्द्धमेकप्रादेशिक्याः श्रेण्या विष्कम्भतः प्रवर्धमानाः २ मध्ये एकैकं योजनलक्षं विष्कम्भेन, तत ऊर्द्ध भूयोऽप्येकप्रादेशिक्या श्रेण्या विष्कम्भतो हीयमाना हीयमाना उपरि-मुखमूले दश योजनसहस्राणि विष्कम्भत इति ॥ ७३ ॥ साम्प्रतमेतेषां पातालकलशानामधिपतीन् देवानाह-एतेषां पातालकलशानामधिपतयः सुराः पल्योपमस्थितयो महर्धिका इमे - एवंनामानः, तद्यथावडवामुखे कालः केयूरे महाकालः यूपे वेलम्बः ईश्वरे प्रभञ्जन इति ॥ ७४ ॥ सम्प्रति लघुपातालकलशवक्तव्यतामाह - 'अन्नेऽवी' - त्यादिगाथाद्वयं, लवणे - लवणसमुद्रे तेषां पातालकलशानामन्तरेषु तत्र तत्र प्रदेशेषु बहवोऽन्येऽपि क्षुल्ला - लघवः पातालाः - पातालकलशाः, क्षुलालिञ्जरसंस्थिता - लघुपिहडक संस्थानसंस्थिताः सन्ति, तत्र सर्वेषामपि सर्वसङ्ख्या सप्त सहस्राण्यष्टौ शतानि चतुरशीत्युत्तराणि, एकैकस्य महापातालकलशस्य परिवारे एकसप्तत्यधिकैकोनविंशतिशतसङ्ख्यानां लघुपातालकलशानां भावादिति ॥ ७५ ॥ एते च लघुपातालकलशाः प्रत्येकमर्धपल्योपमस्थितिकैर्देवैः परिगृहीताः । सम्प्रत्येतेषां प्रमाणमाह - सर्वेऽपि लघुपातालकलशा मूले- बुने उपरि-मुखे प्रत्येकं योजनशतं विस्तीर्णाः, मध्ये - मध्यभागे जठरप्रदेशे दश शतानि-दश योजनशतानि विस्तीर्णाः, तथाऽवगाढा - भूमौ प्रविष्टाः सहस्रं - योजन सहस्रं, तथा 'सिं'ति एतेषां लघुपातालकलशानां कुड्यानि - ठिकरिका बाहल्यमधिकृत्य दशयोजनकानि-दशयोजनप्रमाणानि ॥ ७६ ॥ सम्प्रति गुरूणां लघूनां च पातालकलशानां वाय्वादिविभागमाह — 'पायालाणे' त्या दिगाथात्रयं सर्वेषामपि गुरूणां लघूनां च पातालकलशानां त्रयस्त्रयो विभागा भवन्ति, तद्यथा - अधस्तनो मध्यम उपरितनञ्च तत्र महापातालकलशानामेकैकस्त्रिभागस्त्रयस्त्रिंश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy