SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४४२ ॥ माणं पण्णवत्यधिकं शतं, अष्टाष्टमिकायामष्टाशीत्युत्तरे द्वे शते दत्तीनां नवनवमिकायां पश्चोत्तराणि चत्वारि शतानि दशदशमिकायां पञ्चाशदधिकानि पञ्च शतानि दत्तीनामिति ३० ।। ६१ ।। ६२ ।। ६३ ।। इदानीमाचाम्लवर्धमानं तपः प्राह - 'एगे' त्यादिगाथाद्वयं, एकादिकान्येकैकवृद्धिमन्ति पर्यन्ताभक्तार्थान्याचाम्लानि क्रियन्ते यावत्तेषामाचाम्लानां शतं परिपूर्ण भवति, एतदाचाम्लवर्धमाननामकं महातपश्चरणं, आचाम्लं वर्धमानं यत्र तपश्चरणे तदाचाम्लवर्धमानं, अयमर्थ:- प्रथमं तावदाचाम्लं क्रियते तत उपवासः ततश्च द्वे | आचाम्ले पुनरुपवासः त्रीण्याचाम्लानि पुनरुपवासः चत्वार्याचाम्लानि पुनरुपवासः पञ्च आचाम्लानि पुनरुपवासः एवमुपवासान्तरि| तान्येकोत्तरवृद्धया तावदाचाम्लानि वर्धनीयानि यावत्पर्यन्ते शतमाचाम्लानां कृत्वा एकमुपवासं करोतीति, इह च शतं चतुर्थानां तथा पञ्चाशदधिकानि पञ्च सहस्राण्याचाम्लानां भवन्ति, उभयमीलने वर्षाणि चतुर्दश मासास्त्रयो दिनानि च विंशतिरिति ३१ ॥ ६४ ॥ ।। ६५ ।। अथ गुणरत्नवत्सरं तपः प्राह - 'गुणे'त्यादिगाथाचतुष्टयं, गुणानां - निर्जरादी (मेला) नां निर्जराविशेषाणां रचनं करणं वत्सरेण सत्रिभागवर्षेण यस्मिंस्तपसि तद्गुणरचनवत्सरं अथवा गुणा एव रत्नानि यत्र स तथा गुणरत्नो वत्सरो यत्र तद्गुणरत्नवत्सरं तपः एतस्मिन् गुणरत्नवत्सरे तपश्चरणे षोडश मासा भवन्ति, तत्र प्रथमे मासे एकान्तरा उपवासाः कर्तव्याः, तथा दिवसे निरन्तरमुत्कटुकासनेन स्थातव्यं निशायां पुनर्नित्यमेव वीरासनकेन - वीरासनोपविष्टेन तथा निशि भवितव्यमप्रावृतेन - निरावरणेनेत्यर्थः, एवं द्वितीयादिष्वपि मानेष्वेकोत्तरया वृद्ध्या तावदुपवासाः कर्तव्या यावत्षोडशे मासे षोडशोपवासा भवन्ति, अयमर्थ:- प्रथमे मासे पारणकदिनान्तरित एकैक उपवासः कर्तव्यः द्वितीये मासे द्वौ द्वावुपवासौ तृतीये मासे त्रयस्त्रय उपवासाः चतुर्थे चत्वारो यावत् षोडशमासे पोडश षोडश उपवासा भवन्ति, अत्र च त्रयोदश मासाः सप्तदश दिनाधिकास्तपः कालः त्रिसप्ततिश्च दिनानि पारणककालः एवं चायं - 'पन्नरस Jain Education International For Private & Personal Use Only २७१ विविधाः तपोभेदाः गा. १५०९-७० ।। ४४२ ।। www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy