SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ चाष्टमागसूत्रम्-"पढमे सत्तए एकेकं भोयणस्स दत्तिं पडिगाहेइ, एकेकं पाणयस्स, एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स पडिगाहेइ, सत्त पाणयस्से"त्यादि, अन्ये पुनरन्यथा प्रतिपादयन्ति-प्रथमे सप्तके प्रथमदिवसे एकां दत्तिं गृह्णाति द्वितीये द्वे तृतीये तिस्रः चतुर्थे चतस्रः पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे च सप्तके द्रष्टव्यं, उक्तं च व्यवहारभाष्ये-"अहवा एकेक्कियं दत्तिं जा सत्तेकेकस्स सत्तए। आएसो अस्थि एसोऽवि"त्ति, तदेवमेकोनपञ्चाशता वासरियं सप्तसप्तकिका प्रतिमा भवति, सप्त सप्तका दिनानां यस्यां सा सप्तसप्तकिका, सप्तशब्दककारस्य मकारः प्राकृतत्वात् , अथवा सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, यस्यां हि सप्त दिनसप्तकानि भवन्ति तस्यां सप्त सप्तमानि दिनानि भवन्त्येवेति । तथा अष्टाष्टमिका नवनवमिका दशदशमिका च प्रतिमा एवं-प्रागुक्तप्रकारेणैव द्रष्टव्या, नवरं-केवलमयं विशेष:-अष्टकनवकदशकवृद्धिभिः सह प्रत्येकं दत्तिर्वर्धते, इदमुक्तं भवति-अष्टाष्टमिकायां प्रतिमायामष्टावष्टकानि भवन्ति, तत्र प्रथमेऽष्टके प्रतिदिनमेकैका दत्तिर्गृह्यते, द्वितीयेऽष्टके प्रतिदिनं द्वे दत्ती एवं तृतीये तिनः चतुर्थे चतस्रः एवमेकैकदत्तिवृद्ध्या तावद्वगन्तव्यं यावदष्टमेऽष्टके प्रतिदिनमष्टावष्टौ द. दत्तयो गृह्यन्ते, अस्यां हि चतुःषष्टिर्दिनानि भवन्ति । तथा नवनवमिकायां प्रतिमायां नव नवकानि भवन्ति, तत्र प्रथमे नवके प्रति दिनमेकैका दत्तिः द्वितीये नवके प्रतिदिनं दत्तिद्वयं तृतीये नवके प्रतिदिनं दत्तित्रयं एवमेकैकदत्तिवृद्ध्या तावदवसेयं यावन्नवमे नवके प्रतिदिनं नव नव दत्तयः, अत्र चैकाशीतिर्दिनानि । तथा दशदशमिकायां प्रतिमायां दश दशकानि भवन्ति, तत्र प्रथमे दशके प्रति दिनमेका दत्तिर्गृह्यते, द्वितीये दशके प्रतिदिनं दत्तिद्वयं, एवमेकैकदत्तिवृद्ध्या तावन्नेतव्यं यावद्दशमे दशके प्रतिदिनं दश दश दत्तयः, अत्र || दिनानां शतमेकं । तदेवं नवभिर्मासैश्चतुर्विशत्या दिनैश्चतस्रोऽप्येताः प्रतिमाः समाप्यन्ते, इह च सप्तसप्तमिकायां प्रतिमायां दत्तिपरि Jan Education Internal For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy