________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ४४१ ॥
यवोऽप्यादावन्ते च तनुको मध्ये विपुलः, एवं साधुरपि मिक्षां गृह्णाति शुक्रपक्षस्य प्रतिपद्येकां द्वितीयस्यां द्वे तृतीयस्यां तिस्रो यावत्पञ्चदश्यां पञ्चदश ततो बहुलपक्षस्य प्रतिपदि पुनश्चतुर्दश द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकां अमावास्यामुपोषितः, ततश्चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च भिक्षायास्तनुत्वान्मध्ये विपुलत्वाद्यवमध्योपमितमध्यभागा, तथा चामुमेव यवमध्यां चन्द्रप्रतिमामधिकृत्यान्यत्रोक्तं "एकैकां वर्धयेद्विक्षां, शुक्रे कृष्णे च हापयेत् । भुञ्जीत नामावास्यायामेष चान्द्रायणो विधिः ॥ १ ॥” वज्रमध्यायां चन्द्रप्रतिमायां बहुलपक्ष आदौ क्रियते, तत एवं भावना - बहुलपक्षस्य प्रतिपदि चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते द्वितीयस्यां त्रयोदश तृतीयस्यां द्वादश यावच्चतुर्दश्यामेका अमावास्यायामेकापि न ततः पुनरपि शुकुपक्षस्य प्रतिपदि चन्द्रविमानस्य एका कला दृश्यते द्वितीयायां द्वे यावत्पञ्चदश्यां पञ्चदशापि, तदयं मास आदावन्ते च पृथुलो मध्ये तनुको वज्रमप्यादावन्ते च विपुलं मध्ये तनुकमेवं साधुरपि मिक्षां गृह्णाति बहुलपक्षस्य प्रतिपदि चतुर्दश द्वितीयस्यां त्रयोदश यावच्चतुर्दश्यामेकाममावास्यायां चोपवासयति ततः पुनरपि शुक्लपक्षस्य प्रतिपद्येकां भिक्षां गृह्णाति द्वितीयस्यां द्वे यावत्पश्चदश्यां पञ्चदशेति, तत एषापि चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुकतया वज्रमध्योपमितमध्यभागा वज्रमध्येति २९ ।। ५९ ।। ६० ।। साम्प्रतं सप्तसप्तमिकाद्याश्चतस्रः प्रतिमाः प्रतिपादयति- 'दिवसे' इत्यादिगाथात्रयं प्रथमे सप्तके दिवसे २ एका दत्तिर्ब्राह्मा ततः सप्तकेन सह दत्तिर्वर्धते यावत्सप्तमे सप्तके प्रतिदिनं सप्त दत्तयो भवन्ति, इयमत्र भावना - सप्तसप्तमिकायां प्रतिमायां सप्तसप्तका दिनानां भवन्ति, तत्र प्रथमे सप्तके प्रतिदिवसमेकैकां दतिं गृह्णाति द्वितीये सप्तके प्रतिदिवसं द्वे द्वे दत्ती एवं तृतीये सप्तके तिस्रः २ चतुर्थे चतस्रः २ पञ्चमे पञ्च २ षष्ठे षट् २ सप्तमे सप्त सप्तेति एताश्च भोजनविषया एव दत्तय उक्ताः एवमेतत्सङ्ख्या एव पानकविषया अपि प्रतिपत्तव्याः, तथा
Jain Education International
For Private & Personal Use Only
२७१
| विविधाः तपोभेदाः
गा. १५०९-७०
॥ ४४१ ॥
www.jainelibrary.org