________________
मध्ये तनुकस्य पर्यतयोस्तु स्थूलस्य मध्यं यस्याः सा वनमध्या, तत्रादौ यवमध्यां व्याख्यानयति-यथा शुक्लपक्षे प्रतिपदः प्रारभ्यानुवासरं-प्रतिदिवसमेकैकया कलया चन्द्रो वर्धते यावत्पर्वणि-पूर्णिमायां सकलाभिरपि कलामिः संपूर्णः संपद्यते, तथा-तेनैव प्रकारेण प्रतिपदि एकः कवलः, उपलक्षणमेतत् , ततो भिक्षा दत्तिर्वा एकैव गृह्यते, द्वितीयायां द्वौ कवलौ तृतीयायां त्रयः कवलाः एवमेकैककवलवृद्ध्या यावत्पूर्णिमायां तेषां कवलानां पञ्चदशकं भवति, पञ्चदश कवला अभ्यवहियन्ते इत्यर्थः, कृष्णे पक्षे च यथा प्रतिदिनमेकैका कलां शशी मुञ्चति तथा कवलोऽपि मुच्यते यावदमावास्यायां 'सो'त्ति स कवल एको भवति, कोऽर्थः ?-कृष्णपक्षप्रतिपदि पञ्चदश कवला गृह्यन्ते द्वितीयायां चतुर्दश तृतीयायां त्रयोदश इत्येवं यावदमावास्यायामेक एव कवल इति, एषा यवमध्या चन्द्रप्रतिमा मासमात्रप्रमाणा | भणिता २८ ॥ इदानीं पुनर्मासप्रमिता-मासप्रमाणां वनमध्यां चन्द्रप्रतिमा प्रकर्षेण वक्ष्यामि ॥ ५५ ॥ ५६॥ ५७ ॥ ५८॥ तामेवाह-पन्नरे'यादिगाथाद्वयं, कृष्णपक्षप्रतिपदि पञ्चदश कवला गृह्यन्ते, तत एकैकहान्या तावन्नीयते यावदमावास्यायामेकेन कवलेन जाता, अमावास्यायामेक एव कवलो गृह्यते इति भावः, तथा प्रतिपदपि सिता-शुक्ला एकेन कवलेन जाता, कोऽर्थः ?,-शुक्लप्रतिपद्यप्येक एव कवलो गृह्यते, ततो द्वितीयाया आरभ्यैकोत्तरवृद्ध्या तावन्नेयं यावत्पूर्णिमास्यां पञ्चदश कवला दत्तयो वा गृह्यन्ते इति, तदेव| मिमे यवमध्यवनमध्ये द्वे अपि.प्रतिमे भणिते इति, एष च पञ्चाशकादिग्रन्थाभिप्रायः, व्यवहारचूर्ण्यभिप्रायः पुनरयं-शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्य दृश्यस्य पञ्चदशभागीकृतस्य एका कला दृश्यते चतुर्दश कला न दृश्यन्ते द्वितीयस्यां द्वे कले तृतीयस्यां तिस्रः कलाः एवं यावत्पञ्चदश्यां परिपूर्णायां पञ्चदश कलाः, ततो बहुलपक्षस्य प्रतिपदि एकया कलया ऊनो दृश्यते चतुर्दश कला दृश्यन्ते | द्वितीयस्यां त्रयोदश तृतीयायां द्वादश यावदमावास्यायामेकापि न दृश्यते, तदेवमयं मास आदावूनो मध्ये संपूर्णोऽन्ते पुनरपि परिहीनो,
NAC10-6-CA
CCC
Jain Education International
For Private & Personal use only
www.jainelibrary.org