________________
६ भवति, अधिकश्च तत्र क्रियते ग्लानप्रतिजागरणनियमो-ग्लानो मया पथ्यादिदानतः प्रतिचरणीयः इत्येवंरूपप्रतिज्ञाग्रहणमित्यर्थः, शेषं . सेतु जिनपूजादिकं तथैवेति १९ ॥ ४५ ॥ परमभूषणतपः प्राह-'सो' इत्यादि, परमाणि-शक्रचक्रवर्त्याधुचितानि प्रकृष्टानि हारकेयूरof कुण्डलादीनि भूषणानि-आभरणानि यस्मादसौ परमभूषणः, तस्मिन् द्वात्रिंशदाचाम्लानि पारणकान्तरितानि शक्तिसद्भावे निरन्तराणि
वा करोति, तत्समाप्तौ च देवस्य मुकुटतिलकाद्याभरणवितरणं यथाशक्ति यतिदानादिकं च कर्तव्यमिति २० ॥ ४६ ॥ आयतिजनक तपः प्राह-'आयई'त्यादि, आयति-आगामिकालेऽभीष्टफलं जनयति-करोति योऽसावायतिजनकस्तपोविशेषः सोऽप्येवं-परमभूषणतपोवद् द्वात्रिंशताऽऽचाम्लैर्द्रष्टव्यः, नवरं-केवलं सर्वासु धर्मक्रियासु-वन्दनकप्रतिक्रमणस्वाध्यायसाधुसाध्वीवैयावृत्त्यादिषु सर्वधर्मकृत्येध्वनिगृहितबलवीर्यप्रवृत्तियुक्तैः-अगोपायितशरीरप्राणचित्तोत्साहप्रवर्तनप्रधानैः स:-आयतिजनकः कार्यः २१ ॥४७॥ सौभाग्यकल्प| वृक्षमाह-एगंते'त्यादिगाथाद्वयं, कल्पवृक्ष इव कल्पवृक्षः सौभाग्यफलदाने कल्पवृक्षः सौभाग्यकल्पवृक्षः, तत्र सौभाग्यकल्पवृक्षतपसि | चैत्रमासे एकान्तरा-एकदिनव्यवहिता उपवासाः समग्रमपि मासं भवन्ति, पारणकं च सर्वरसं-सविकृतिकमित्यर्थः, तथाऽत्र यथाशक्ति साध्वादिभ्यो दानं दीयते, अस्य च तपश्चरणस्य समाप्तौ शक्त्यनुसारतो जिनपतेः पुरतः पूजाकरणादिपूर्व विशालस्थालावलिमध्ये महारजतमयः सरलतण्डुलमयो वा विविधफलपटलविलसदसंख्यशाखाशिखः कल्पशाखी कर्तव्य इति २२ ।। ४८॥ ४९ ॥ तीर्थकरमा-| तृतप आह–'तित्थे'यादि, तीर्थकरजननीपूजापूर्वमेकाशनानि-एकभक्तानि सप्तैव तीर्थकरजननीनामके तपसि क्रियन्ते, अस्य च तपसो भाद्रपदे मासि शुक्सप्तम्यामारम्भः त्रयोदश्यां च समाप्तिः, वर्षत्रयं च यावदिदं तपः क्रियते २३ ॥ ५० ॥ समवसरणतप आह–'एक्कासे'त्यादि, भाद्रपदमासि कृष्णप्रतिपद आरभ्य तत्पूजापूर्व-समवसरणप्रतिमापूजनपुरस्सरं स्वशक्त्यनुसारेणैकाशननिर्विक
सनCOCC
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org