SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ A ६ ACHCRECEDESCREE द्वितीया, नव पञ्च षट् सप्ताष्टाविति तृतीया, षट् सप्ताष्टौ नव पञ्चेति चतुर्थी, अष्टौ नव पञ्च षट् सप्तेति पञ्चमी, इह पञ्चसप्तत्युत्तरं शतमभक्तार्थानां-उपवासानां पञ्चविंशतिस्तु पारणकानां, एवं च भद्रोत्तरतपसि | शतद्वयं दिनानां भवति, स्थापना चेयं ॥ साम्प्रतं सर्वतोभद्रतपः प्राह-'पडिमे'त्यादि गाथा-[पवन चतुष्कं, प्रतिमायां सर्वभद्रायां सर्वतोभद्रतपसीत्यर्थः, पञ्च षट् सप्त अष्टौ नव दश एकादश | उपवासा इति प्रथमा लता, अष्टौ नव दश एकादश पञ्च षट् सप्तेति द्वितीया, एकादश ५६२३ पञ्च षट् सप्ताष्टौ नव दशेति तृतीया, सप्त अष्टौ नव दश एकादश पञ्च षडिति चतुर्थी, दश एकादश पञ्च षट् सप्त अष्ट नवेति पञ्चमी, षट् सप्त अष्टौ नव दश एकादश पञ्चेति षष्ठी, नव दश एकादश पञ्च षट् सप्त अष्टा-18 विति सप्तमी, स्थापना चेयं, अत्र च सर्वसङ्ख्यया त्रीणि शतानि द्विनवत्युत्तराणि उपवासानां भवन्ति, एकोनपञ्चाशच्च पारणकानां, उभयमीलने चत्वारि शतान्येकचत्वारिंशदधिकानि दिनानां भवन्तीति । तदेवमेतानि भद्रादीनि-भद्रमहाभद्रभद्रोत्तरसर्वतोभद्ररूपाणि चत्वारि तपांसि भणितानि, ग्रंथान्तरे पुनरमून्यन्यथाऽपि दृश्यन्ते, एतेष्वपि चतुर्षु तपस्सु प्राग्वत्पारणकभेदतः प्रत्येकं चातुर्विध्यं च द्रष्टव्यं, दिनसङ्ख्या च यथायथमानेतव्येति ॥ २५ ॥ अथ सर्वसौख्यसम्पत्तितपः प्राह-'पडिवे'त्यादि, प्रतिपदेकैव द्विकं द्वितीययोः एवं यावत्पञ्चदश अमावास्याः क्षमणैः-उपवासैर्यत्र भवन्ति, अयमर्थः-एका प्रतिपद् द्वे द्वितीये तिस्रस्तृतीयाः चत REAC+COCCA4 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy