________________
SARSAECTECA
पारणकं वाच्यं, ततोऽष्टावष्टमानि-उपवासत्रिकात्मकानि करोति, एतैः किल काहलिकाया अधस्ताद्दाडिमपुष्पं निष्पद्यते, ततश्चैकमुपवासं करोति ततोऽपि द्वौ ततस्त्रीन् ततोऽपि चतुर इत्येवं पञ्च षट् सप्ताष्टौ नव दशैकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडशोपवासान् करोति, एषा हि दाडिमपुष्पस्याधस्तादेका सरिका, ततश्चतुस्त्रिंशदष्टमानि करोति, एतैः किल पदकं संपद्यते, ततः पोडशोपवासान् करोति ततः पञ्चदश ततश्चतुर्दश इत्येवमेकैकहान्या तावन्नेयं यावदेक उपवासः, एषा द्वितीया सरिका भवति, ततश्चाष्टावटमानि करोति, एतैरपि द्वितीयं दाडिमपुष्पं निष्पद्यते, ततस्त्रीनुपवासान् करोति ततो द्वौ तत एकमुपवासं करोति, एतैर्द्वितीया काहलिका निष्पद्यते, एवं सति परिपूर्णा रत्नावली सिद्धा भवति, अस्मिंश्च रत्नावलीतपसि काहलिकायास्तपोदिनानि १२ दाडिमपुष्पयोः षोडशभिरष्टमैर्दिनानि ४८ सरिकायुगले द्वाभ्यां षोडशसंकलनाभ्यां दिनानि २७२ पदके चतुस्त्रिंशताऽष्टमैर्दिनानि १०२, सर्वैकत्वे चत्वारि
शतानि चतुस्त्रिंशदुत्तराणि, अष्टाशीतिश्च पारणकदिनानि, उभयमीलने पञ्च शतानि द्वाविंशत्युत्तराणि, पिण्डितास्तु वर्षमेकं मासाः दि पञ्च दिनानि च द्वादश, इदमपि च तपः पूर्ववञ्चतसृभिः परिपाटीमिः समर्थ्यते, ततश्चतुर्भिर्गुणने वर्षाणि पश्च मासा नव अष्टादश *च दिनानीति ॥ १९॥२०॥ २१॥ कनकावलीतपः प्राह-रयणे'त्यादि गाथाद्वयं, कनकमयमणिकनिष्पन्नो भूषणविशेषः कन
कावली तदाकारं स्थापनया यत्तपस्तत्कनकावलीत्युच्यते, एतच्च कनकावलीतपो रत्नावलीतपःक्रमेणैव क्रियते, नवरं-केवलं दाडिमतपुष्पयोः पदके च त्रिकपदे-त्रिकाणां स्थाने उपवासद्वयसूचका द्विकाः कर्तव्याः, शेषं पुनः सर्वमपि तथैवेति, अस्मिंश्च तपसि काह
लिकयोस्तपोदिनानि द्वादश दाडिमपुष्पयोर्द्वात्रिंशत् सरिकायुगले द्वे शते द्वासप्तत्युत्तरे पदके चाष्टषष्टिः, सर्वसङ्ख्यया त्रीणि शतानि चतुरशीत्यधिकानि, अष्टाशीतिश्च पारणकदिवसाः, तत्प्रक्षेपाच्चत्वारि दिनशतानि द्वासप्तत्युत्तराणि, सर्वानपिण्डस्तु वर्षमेकं त्रयो मासा द्वाविं
R
Join Education International
For Private & Personal Use Only
www.jainelibrary.org