________________
द्वयं, मुक्तावली - मौक्तिकहार स्तदाकारस्थापनया यत्तपस्तन्मुक्तावलीत्युच्यते, तत्रादौ तावदेककः स्थाप्यते ततो द्विकत्रिका
एककान्तरिता भवन्ति यावत् पर्यन्ते षोडश, ततः पुनः प्रत्यागत्या षोडशादय एककपर्यन्ता एककान्तरिताः स्थाप्यन्ते, स्थापना चेयं, अयमर्थः -पूर्व
तावदेक उपवासः ततो द्वौ ततः पुनरेकः ततस्त्रयः
तत एकः ततञ्चत्वारः तत एकः ततः पच तत एकः ततः षट् तत एकः ततः सप्त तत एकः ततोऽष्टौ तत एकः ततो नव तत एकः ततो दश तत एकः तत एकादश तत एकः ततो द्वादश तत एकः ततस्त्रयोदश तत एकः ततश्चतुर्दश तत एकः ततः पथ्यदश तत एकः ततः षोडशोपवासाः, एवमर्ध मुक्तावल्या निष्पन्नं, द्वितीयमप्यर्धमेवं द्रष्टव्यं, केवलमन्त्र प्रतिलोमगत्या उपवासान् करोति, तद्यथा — षोडशोपवासान् कृत्वा एकमुपवासं करोति, ततः पञ्चदश तत एकमित्येवमेकोपवासान्तरितमेकोत्तरहान्या तावन्नेयं यावत्पर्यन्ते द्वावुपवासौ कृत्वा एकमुपवासं करोतीति, एतेऽभक्तार्था - उपवासाः सर्वाग्रेण त्रीणि शतानि, तथाहि - द्वे षोडशसङ्कलने १३६ - १३६ अष्टाविंशतिश्च चतुर्थानि तथा षष्टिः पारणकानि ततो जातं वर्षमेकं एतदपि तपः प्राग्वञ्चतसृभिः परिपाटीभिः समाप्यते, ततो भवन्ति मुक्तावलीतपसि दिवससङ्ख्यया चत्वारि वर्षाणीति, अंतकृद्दशासु पुनर्य एव प्रथमपङ्क्तिपर्यन्तवर्तिनः षोडश द्वितीयपङ्किप्रारम्भेऽपि त एव एक एव षोडशक इति तात्पर्यं ॥ १८ ॥ रत्नावलीतपः प्राह — 'इगे'त्यादि गाथात्रयं, रत्नावली - आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाह लिकाख्य सौवर्णावयवद्वययुक्ता तदनु दाडिमपुष्पोभयोपशोभिता ततोऽपि सरलसरिकायुगलशालिनी पुनर्मध्यदेशे सुलिष्टपदकसमलङ्कृता च भवति, एवं यत्तपः पट्टादावुपदर्श्यमानमिममाकारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org