________________
२७१
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
विविधाः तपोभेदाः
गा. १५०९-७०
॥४३६॥
क्रीडितं तप आह-'इगे'त्यादि गाथाद्वयं, इह एकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च यादीनां षोडशान्तानामग्रे प्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषु वेकान्तेषु पञ्चदशादीनां व्यन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, स्थापना चेयं, MaraP
A PA
अयमर्थः-प्रथममेक उमहासिंहनिष्क्रीडितं तपः
पवासः ततो द्वौ तत | Garamanraora0000BBBARHAAR एकः ततस्त्रयः ततो द्वौ ततश्चत्वारः ततस्त्रयः ततः पञ्च ततश्चत्वारः ततः षट् ततः पञ्च ततः सप्त ततः षट् ततोऽष्टौ ततः सप्त ततो नव ततोऽष्टौ ततो दश ततो | नव तत एकादश ततो दश ततो द्वादश तत एकादश ततस्त्रयोदश ततो द्वादश ततश्चतुर्दश ततस्त्रयोदश ततः पञ्चदश ततश्चतुर्दश | ततः षोडश ततः पञ्चदशोपवासा इति, एवं प्रत्यागत्याऽपि षोडशोपवासाः ततश्चतुर्दशेत्यादि तावदवसेयं यावत्पर्यत एक उपवास इति ॥ १६ ॥ अथोक्तशेष दिनसर्वसङ्ख्यां चाह-एए'इत्यादि गाथाद्वयं, अस्मिन्महासिंहनिष्क्रीडिते तीब्रे-अतिदुश्चरे तपश्चरणे एतेपूर्वोक्तपतिद्वितयोदिता अभक्तार्था-उपवासा भवन्ति, ते च सर्वसङ्ख्यया चत्वारि शतानि सप्तनवत्युत्तराणि, तथाहि-अत्र द्वे षोडशसङ्कलने |१३६-१३६ एका पञ्चदशसङ्कलने (ना) १२० एकैव चतुर्दशसङ्कलने (ना) १०५, तथा एकषष्टिः पारणकानि भवन्ति, ततः सर्वैकत्वे वर्षमेकं षण्मासा अष्टादश च दिनानीत्येषा परिपाटी, एतदपि च तपः पूर्ववत्पारणकभेदेन चतसृभिः परिपाटीभिः परिसमाप्यते, ततोऽस्य राशेश्चतुर्भिर्गुणने वर्षाणि षट् मासौ द्वौ दिनानि च द्वादश भवन्तीति ॥ १७ ॥ मुक्तावलीतपः प्राह-'एको'इत्यादि गाथा
॥४३६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org