________________
एतस्य चैवं रचना - एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्या नवादय एकान्ताः, ततश्च द्वयादीनां नवान्तानामप्रे प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कावष्टादीनां द्व्यन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्ते इति, स्थापना चेयं, अय
| 1 | मर्थः - प्रथममेक उपवासः क्रियते ततः पारणकं एवमन्तरा सर्वत्र पारणकं ज्ञेयं, ततो द्वौ तत एकः ततस्त्रय उपवासा ततो द्वौ ततश्चत्वारः ततस्त्रयः ततः पञ्च ततश्चत्वारः ततः षट् ततः पश्च ततः सप्त ततः षट् ततोऽष्टौ ततः सप्त ३ २ २ ३ ततो नव ततोऽष्टौ ततो नव ततः सप्त ततोऽष्टौ ततः षट् ततः सप्त ततः पश्च ततः षट् ततश्चत्वारः ततः पञ्च ततस्त्रयः ५ ४ ४ ५ ततश्चत्वारः ततो द्वौ ततस्त्रयः तत एकः ततो द्वौ तत एक इति, एते लघुसिंहनिष्क्रीडिते तपस्युपवासाः ॥ १३ ॥ अथो६ ५ ५ ६ पवासदिवसानां पारणकदिनानां च सङ्ख्यामाह - 'चउ' इत्यादि, लघुसिंहनिष्क्रीडिते तपसि क्षमणदिनानां - उपवास
९
७ दिवसानां शतमेकं चतुष्पञ्चाशदधिकं तथाहि - द्वे नवसङ्कलने तत एका ४५, पुनः ४५, अष्टसङ्कलना चैका ३६ • सप्तसङ्कलनाप्येकैव २८, सर्वमीलने च यथोक्ता सङ्ख्या भवति १५४, तथा पारणकानि त्रयस्त्रिंशत्, तदेवं सर्वदिनसङ्ख्या १८७, ते च षण्मासाः सप्तदिनाधिका भवन्ति, एतच तपः परिपाटीचतुष्टयेन क्रियते, तत एतेषु चतुर्गुणितेषु द्वे वर्षे अष्टाविं शतिदिनाधिके भवतः ॥ १४ ॥ अथ परिपाटीचतुष्टयेऽपि प्रत्येकं पारणस्वरूपं निरूपयति – 'विगईत्यादि, प्रथमपरिपाट्यां पारणकेषु विकृतयो भवन्ति, सर्वरसोपेतं पारणकमिति भावः, द्वितीयपरिपाट्यां निर्विकृतिकं- विकृतिविरहः, तृतीयपरिपाट्यामलेपकारि-वल्लचणकादि, चतुर्थपरिपाट्यामाचाम्लं परिमितभैक्ष्यमिति, एवमस्य तपसः पारणकभेदेन चतस्रः परिपाट्यो विधेयाः ॥ १५ ॥ महासिंहनि
Jain Education International
१
८७
For Private & Personal Use Only
www.jainelibrary.org