________________
प्रव० सारोद्धारे तत्वज्ञानवि०
॥४३५॥
प्राह-नाणंमी'त्यादि, ज्ञाने-ज्ञानशुद्धिनिमित्तं दर्शने-दर्शनशुद्धिनिमित्तं चरणे-चारित्रशुद्धिनिमित्तं तत्पूजापूर्व-ज्ञानादिपूजापुरस्सरं २७१ |तन्नामके-ज्ञानादिनामके तपसि प्रत्येकं त्रयस्त्रय उपवासा भवन्ति, इदमुक्तं भवति-ज्ञानस्य सिद्धिहेतोनिभिरुपवासैः कृतैर्ज्ञानतपो विविधाः भवति, तत्र च यथाशक्ति ज्ञानस्य-सिद्धान्तादेः पुस्तकन्यस्तस्य सुप्रशस्तपरिधांपनिकादिकरणं ज्ञानवतां च पुरुषाणामेषणीयवस्नान- तपोमेदाः पानप्रदानादिरूपा पूजा कर्तव्या, एवं त्रिभिरुपवासैदर्शनतपो भवति, नवरं तत्र दर्शनप्रभावकाणां सम्मत्यादिप्रन्थानां सद्गुरूणां च पूजा विधेया, तथा त्रिमिरुपवासैश्चारित्रतपो भवति, तत्रापि चारित्रिणां पूजा करणीयेति ॥ ११॥ कषायविजयतपः प्राह- ४|१५०९-७०
'एके'त्यादि, एकाशनकं निर्विकृतिकं आचाम्लं अभक्तार्थश्च-उपवासः इत्येका लता, प्रतिकषायं चैकैका लता क्रियते तत्कषाय४|| विजयं तपश्चरणं, कषायाणां-क्रोधमानमायालोभलक्षणानां चतुर्णा विशेषेण जयः-अभिभवनं यस्मादितिकृत्वा, अस्मिंश्च तपसि |
चतस्रो लताः षोडश दिवसानि ॥ १२ ॥ अष्टकर्मसूदनं तपः प्राह-'खमण'मित्यादिगाथाद्वयं, क्षमणम्-उपवासः १ एकाशनं २ एकसिक्थकं ३ एकस्थानकं ३ एका दत्तिः ५ निर्विकृतिकं ६ आचाम्लं ७ अष्टकवलं च ८ एषा एका लता, एकैकं च कर्माश्रित्यैवंरूपा| एकैका लता क्रियते, ततोऽष्टामिलताभिर्दिवसानां चतुःषष्टिर्भणिता जिनेन्द्र्रष्टकर्मसूदनतपसि, अष्टानां कर्मणां-ज्ञानावरणादीनां सूदनंविनाशनं यस्मात्तदृष्टकर्मसूदनं तपः, एतत्समाप्तौ च जिनपतीनां स्नपनविलेपनपूजनपरिधापनिकादि विधेयं, पुरतो विशिष्टबलिमध्ये कनक-| मयी कर्मतरुदारिका कुठारिका च ढौकनीया ॥ १२॥ लघुसिंह निष्क्रीडितं तपः प्रतिपादयितुमाह-'इगे'त्यादिगाथाद्वयं, अनन्तरवक्ष्यमाणमहासिंह निष्कीडितापेक्षया लघु-इखं सिंहस्य निष्क्रीडितं-गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिहनिष्क्रीडितमिति, सिंहो ॥४३५॥ हि गच्छन् गत्वाऽतिक्रान्तं देशमवलोकयति एवं यत्र तपस्यतिक्रान्ततपोविशेष पुनरासेव्यातनं तं प्रकरोति तत् सिंहनिष्क्रीडितमिति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org