SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ . " ESH प्रव० सा- रोद्धारे तत्त्वज्ञानवि० १०७ दीक्षानहाँ पुरुषाः गा.७९०० ७९१ ॥२२९॥ अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षा मन्यन्ते, यदुक्तं निशीथचूर्णी-आदेसेण वा गभट्ठमस्स दिक्ख"त्ति [आदेशेन वा गर्भाष्टमस्य दीक्षेति ] भगवद्वत्रस्वामिना व्यभिचार इति चेत् , तथाहि-भगवान् वनस्वामी पाण्मासिकोऽपि भावतः प्रतिपन्नसर्वसावद्यविरतिः श्रूयते, तथा च सूत्रं-'छम्मासियं छसु जयं माऊए समन्नियं वंदे [पाण्मासिकं षट्सु यतं मात्रा समन्वितं वन्दे] सत्यमेतत् , किन्त्वियं शैशवेऽपि भगवद्वनस्वामिनो भावतश्चरणप्रतिपत्तिराश्चर्यभूता कादाचित्कीति न तया व्यभिचारः, उक्तं च पञ्चवस्तुके-"तधो परि- हवखेत्तं न चरणभावोऽवि पायमेएसि । आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ॥१॥" अस्या व्याख्या-तेषामष्टानामधो वर्तमाना मनुष्याः परिभवक्षेत्रं भवन्ति, येन तेन वाऽतिशिशुत्वात्परिभूयन्ते, तथा चरणभावोऽपि-चरणपरिणामोऽपि प्राय एतेषां-वर्षाष्टकाधो-18 वर्तमानानां न भवति, यत्पुनः सूत्रं 'छम्मासियं छसु जयं माऊए समन्नियं वंदे' इत्येवंरूपं तत् 'आहच्चभावकहगं' कादाचित्कभावकथक, ततो वर्षाष्टकाद्धः परिभवक्षेत्रत्वाच्चरणपरिणामाभावाच्च न दीक्ष्यन्ते इति, अन्यच्च बालदीक्षणायां संयमविराधनादयो दोषाः, स | हि अयोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षड्जीवनिकायवधाय भवति, तथा निरनुकम्पा अमी श्रमणाः यदेवं बालानपि बलाद्दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिदन्तीति जननिन्दा, तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति १ । तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अपरे त्वाहुः-अर्वागपीन्द्रियादिहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धो| ऽभिधीयते, तस्यापि च समाधानादि कर्तु दुःशकं, यदुक्तम्-"उच्चासणं समीहइ विणयं न करेइ गब्वमुब्वइ । वुडो न दिक्खियव्वो जइ जाओ वासुदेवेणं ॥ १॥" [उच्चासनं समीहते विनयं न करोति गर्वमुद्वहति । वृद्धो न दीक्षितव्यो यदि जातो वासुदेवेन ॥१॥] ६ इत्यादि, इदं च वर्षशतायुष्कं प्रति द्रष्टव्यं, अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद्दशधा विभज्याष्टमनवमदशमभागेषु वर्तमानस्य वृद्ध 9-96496 २२९॥ Jain Education in L For Private Personal Use Only ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy