________________
सणार्थ छायायां पुष्पफलप्रदवृक्षादिसम्बन्धिन्यां निर्गतायां व्युत्सृजति, अथ छायाऽद्यापि न निर्गच्छति मध्याह्ने एव संज्ञाप्रवृत्तेः ततश्छा & याया असति-अभावे उष्णेऽपि स्वशरीरच्छायां पुरीषस्य कृत्वा व्युत्सृजति, व्युत्सृज्य च मुहूर्तक-अल्पं मुहूर्त तथैव तिष्ठति येन एता
वता कालेन स्वयोगतस्ते परिणमन्ति, अन्यथोष्णेन महती परितापना स्यात् ॥ ७८८ ॥ अथ व्युत्सृजन खोपैकरणं कथं धरतीत्याह'उ'त्यादि, उपकरणं-दण्डकं रजोहरणं च वामे ऊरौ स्थापयति, मात्रकं च दक्षिणे हस्ते क्रियते, डगलानि च वामहस्तेन धरणीयानि, ततः संज्ञा व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं पुंसयति-रूक्षयति, पुंसयित्वा त्रिभि वापूरकैः चुलुफैरित्यर्थः आचमनंनिर्लेपनं करोति, उक्तं च-तिहिं नावापूरएहिं आयामइ-निल्लेवेइ, नावा-पसई' इति, तदपि चाचमनमदूरे करोति, यदि पुनर्दूरे आचमति तत उडाहो यथा कश्चिद् दृष्ट्वा चिन्तयेत्-अनिर्लिप्तपुतो गत एष इति ॥ १०६॥ ७८९ ॥ इदानीं 'अट्ठारस पुरिसेसु'त्ति सप्तोत्तरशततमं द्वारमाह
बाले १ बुढे २ नपुंसे य ३, कीवे ४ जड़े य ५ वाहिए ६। तेणे ७ रायावगारी य ८, उम्मत्ते य ९ अदंसणे १०॥७९॥ दासे ११ दुढे य १२ मूढे य १३, अणत्ते १४ जंगिए इय १५ । ओबद्धए
य १६ भयए १७, सेहनिप्फेडिया इय १८ ॥७९१ ॥ 'बाले'त्यादि श्लोकद्वयं, जन्मत आरभ्य अष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते, स किल गर्भस्थो नव मासान् सातिरेकान् गमयति जातोsप्यष्टौ वर्षाणि यावद्दीक्षान प्रतिपद्यते, वर्षाष्टकाधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्यादेशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् , उक्तं च"एएसि वयपमाणं अट्ठ समाउत्ति वीयराएहिं । भणि जहन्नगं खलु" इति [एतेषां वयःप्रमाणमष्ट समा इति वीतरागैर्भणितं जघन्यकं खलु]]
प्र.सा.३९
Jain Education
a
l
For Private & Personal Use Only
lwww.jainelibrary.org