________________
INR
Nilच परेण चिन्तितं घटं प्रसङ्गतः पर्यवशतैरुपेतमनुसरति-सौवर्णः पाटलिपुत्रकोऽद्यतनो महानपवरकस्थित इत्याद्यपि प्रभूतविशेषैर्विशिष्टंग ६ घटं परेण चिन्तितमवगच्छतीत्यर्थः, इदमत्र तात्पर्य-मनःपर्यायज्ञानं द्वेधा-ऋजुमतिर्विपुलमतिश्च, तत्र सामान्यघटादिवस्तुमात्रचिन्तनप्र-॥
वृत्तमनःपरिणामग्राहि किञ्चिदविशुद्धतरमर्धतृतीयाङ्गुलहीनमनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः, पर्यायशतोपेतघटादिवस्तुविशेषचिन्तनप्रवृत्तमनोद्रव्यग्राहि स्फुटतरं संपूर्णमनुष्यक्षेत्रविषयं ज्ञानं विपुलमतिलब्धिः। सम्प्रत्याशीविषलब्धिमाह-'आसी'त्यादि, आश्यो-दंष्ट्रास्तासु गतं-स्थितं महद्विषं येषां भवति ते आशीविषाः, ते च द्विभेदाः-कर्मभेदेन जातिभेदेन च, तत्र कर्मभेदेन पञ्चेन्द्रियतिर्यग्योनयो मनुष्या देवाश्च सहस्रारान्ता इत्यनेकविधाः, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आशीविषवृश्चिकभुजङ्गादिसाध्या क्रियां कुर्वन्ति, शापप्र
दानादिना परं व्यापादयन्तीति भावः, देवास्त्वपर्याप्तावस्थायां तच्छक्तिमन्तो मन्तव्याः, ते हि पूर्व मनुष्यभवे समुपार्जिताशीविषलब्धयः ६ सहस्रारान्तदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविकाशीविषलब्धिसंस्कारादाशीविषलब्धिमन्तो व्यवहियन्ते, ततः परं तु पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति न तद्व्यपदेशभाजः, यद्यपि च नाम पर्याप्ता अपि देवाः शापादिना परं व्यापादयन्ति तथापि न लब्धिव्यपदेशः, भवप्रत्ययतस्तथारूपसामर्थ्यस्य सर्वसाधारणत्वात् , गुणप्रत्ययो हि सामर्थ्य विशेषो लब्धिरिति प्रसिद्धेः, जातिभेदेन च वृश्चिकमण्डूकसर्पमनुष्यभेदाच्चतुर्विधाः क्रमेण वहुबहुतरबहुतमातिबहुतमविषाः, वृश्चिकविषं द्युत्कृष्टतोऽर्धभरतक्षेत्रप्रमाणं वपुर्व्याप्नोति मण्डूकविष भरतक्षेत्रप्रमाणं भुजङ्गविषं जम्बूद्वीपप्रमाणं मनुष्यविषं तु समयक्षेत्रप्रमाणमिति । अथ क्षीरमधुसर्पिराश्रवलब्धिं कोष्ठकबुद्धिलब्धि चाह-खीरे'त्यादि, क्षीरं-दुग्धं मधु-मधुरद्रव्यं सर्पिः-घृतं एतत्स्वादोपमानं वचनं वैरस्वाम्यादिवत्तदाश्रवाः-क्षीरमधुसर्पिराश्रवा भवन्ति, इयमत्र भावना-पुण्डेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्धार्धक्रमेण दीयते यावदेकस्याः पीतगोक्षीरायाः क्षीरं, तकिल चातुरि
HARDCORESCALCCACANCIEOCACANCE
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org