SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० २७० ल ब्धिस्वरूप द गा.१४९२ ४ -१५०८ ॥४३०॥ मूत्रपुरीषयोरेवावयवा इह विगुडुच्यते इति, अन्ये तु भाषन्ते-विडिति विष्ठा पत्ति प्रश्रवणं मूत्रं, 'सूचकत्वात् सूत्रस्येति, तत 'एए'त्ति एतौ विप्रण्मत्रावयवौ 'अन्ने यत्ति अन्ये च खेलजल्लकेशनखादयो बहवः सर्वे च समुदिता अवयवा येषां साधूनां सुरभयो रोगोपशमसमर्थाश्च ते साधवो भवन्ति, कथंभूता इत्याह-'तओसहिं पत्ति'त्ति ते च ते औषधयश्च तदोषधयो-विण्मूत्रखेलजल्लकेशनखाद्यौषधयः सर्वोषधयश्च ताः प्राप्तास्तदौषधिप्राप्ताः, विण्मूत्राद्यौषधयः सर्वोषधयश्च साधवो भवन्तीत्यर्थः, एतदुक्तं भवति-यन्माहात्म्यान्मूत्रपुरीषाव| यवमात्रमपि रोगराशिप्रणाशाय संपद्यते सुरमि च सा विगुडौषधिः, तथा खेल:-श्लेष्मा जल्लो-मलः कर्णवदननाशिकानयनजिह्वासमुद्भवः शरीरसम्भवश्च तो खेलजल्लौ यत्प्रभावतः सर्वरोगापहारको सुरभी च भवतः सा क्रमेण खेलौषधिजल्लौषधिश्च, तथा यन्माहाम्यतो विण्मूत्रकेशनखादयश्च सर्वेऽप्यवयवाः समुदिताः सर्वत्र भेषजीभावं सौरभं च भजते सा सर्वोपधिरिति । सम्प्रति सम्भिन्नश्रोतोलब्धिमाह-'जो'इत्यादि, यः सर्वतः-सर्वैरपि शरीरदेशैः शृणोति स सम्भिन्नश्रोताः, अथवा यः सर्वानपि शब्दादीन् विषयान् सर्वैरपि श्रोतोभिः-इन्द्रियैर्जानाति, एकतरेणापीन्द्रियेण समस्तापरेन्द्रियगम्यान् विषयान् योऽवगच्छतीत्यर्थः, स सम्भिन्नश्रोतोलब्धिमान् , अथवा द्वादशयोजनविस्तृतस्य चक्रवर्तिकटकस्य युगपद्भुवाणस्य तत्तूर्यसङ्घातस्य वा समकालमास्फाल्यमानस्य सम्भिन्नान्-लक्षणतो विधानतश्च परस्परं विमिन्नान् जननिवहसमुत्थान् शङ्खकालाभेरीभाणकढक्कादितूर्यसमुत्थान् वा युगपदेव च सुबहून् शब्दान् यः शृणोति स संभिन्नश्रोताः सम्भिन्नश्रोतोलब्धिरिति । अथ ऋजुमतिलब्धि विपुलमतिलब्धिं चाह-'रिउ'इत्यादि गाथाद्वयं, ऋजु-सामान्य वस्तुमात्र तग्राहिणी मति:-संवेदनं ऋजुमति मनोज्ञान-मनःपर्यायज्ञानमेव, सा च प्रायो-बाहुल्येन विशेषविमुख-देशकालाधनेकपर्यायपरित्यक्तं घटमात्र परेण चिन्तितं जानाति, तथा विपुलं वस्तुनो घटादेर्विशेषाणां देशक्षेत्रकालादीनां मान-सङ्ख्यास्वरूपं तग्राहिणी मतिर्विपुला, सा ॥४३०॥ Jain Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy