SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ हिलाणवि जत्तिय जायंति तं वोच्छं ॥५॥ अरहंतचक्किकेसवबलसंभिन्ने य चारणे पुवा । गणहरपुलायआहारगं च न हु भवियमहिलाणं ॥ ६ ॥ अभवियपुरिसाणं पुण दस पुचिल्लाउ केवलितं च । उज्जुमई विउलमई तेरस एयाउ न हु हुंति ॥७॥ अभवियमहिलाणंपि हु एयाओ हुंति भणियलद्धीओ । महुखीरासवलद्धीवि नेय सेसा उ अविरुहा ॥८॥ लब्धिशब्दस्य प्रत्येकममिसम्बन्धात् आमौंषधिलब्धिः विघुडौषधिलब्धिः खेलौषधिलब्धिः जल्लौषधिलब्धिः सौंषधिलब्धिः सम्भिन्नेति || 'सूचकत्वात्सूत्रस्य' सम्भिन्नश्रोतोलब्धिः अवधिलब्धिः ऋजुमतिलब्धिः विपुलमतिलब्धिः चारणलब्धिः आशीविषलब्धिः केवलिलब्धिः गणधरलब्धिः पूर्वधरलब्धिः अहल्लब्धिः चक्रवर्तिलब्धिः बलदेवलब्धिः वासुदेवलब्धिः क्षीरमधुसर्पिराश्रवलब्धिः कोष्ठकबुद्धिलब्धिः पदानुसारिलब्धिः तथा बीजबुद्धिलब्धिः तेजोलेश्यालब्धिः आहारकलब्धिः शीतलेश्यालब्धिः वैकुर्विकदेहलब्धिः अक्षीणमहानसीलब्धिः पुलाकलब्धिः, | एवमेता अष्टाविंशतिसङ्ख्या आदिशब्दादन्याश्च जीवानां शुभशुभतरशुभतमपरिणामवशादसाधारणतपःप्रभावाच्च नानाविधलब्धयः ऋद्धिविशेषा भवन्ति । अथैताः क्रमेण व्याचिख्यासुः पूर्व तावदामशौंषध्यादिलब्धिपञ्चकं प्रपञ्चयितुमाह-संफरिसे'त्यादि गाथाद्वयं, संस्पर्शनमामर्शः स एवौषधिर्यस्यासावामशौषधिः-करादिसंस्पर्शमात्रादेव विविधव्याधिव्यपनयनसमर्थों लब्धिलब्धिमतोरभेदोपचारात् साधुरेवामशौषधिरित्यर्थः, इदमत्र तात्पर्य यत्प्रभावात् स्वहस्तपादाद्यवयवपरामर्शमात्रेणैवात्मनः परस्य वा सर्वेऽपि रोगाः प्रणश्यन्ति सा आमशीषधिः, 'मुत्तपुरीसाण विप्पुसो वावि (ऽवयवा)त्तिमूत्रपुरीषयोर्विष:-अवयवाः इह विप्रुडुच्यते, 'विप्पुसो वाऽवि'त्ति पाठस्तु ग्रन्थान्तरे-16 ध्वदृष्टत्वादुपेक्षितः, अथचावश्यमेतद्व्याख्यानेन प्रयोजनं तदेत्थं व्याख्येयं-वाशब्दः समुच्चये अपिशब्द एवकारार्थो भिन्नक्रमश्व, ततो| Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy