SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे नवि० ॥४२८॥ लक्षप्रमाणयक्ता दश योजनान्युरिछ्रता-उद्विद्धाः, तथा चतसृषु दिक्षु नानामणिमयस्तम्भसंनिविष्टैरुतुजैस्तोरणैः पूर्वादिदिक्क्रमेणाशो- २६९नकसप्तच्छदचम्पकचतवनैश्च युक्ताः-परिक्षिप्ताः । एवं शेषाजनगिरिसम्बन्धिनीनामपि पुष्करिणीनां वाच्यं । तासां मध्ये-बहमध्यदे- 1न्दीश्वरदीकसतच्छापकपूर भाने सर्वात्मना स्फटिकमया दधिमुखनामानो महीधरा:-पर्वताः सन्ति, ते च दुग्धदधिवत् सित:-श्वेतो वर्ण:-कान्तिर्येषां ते तथा, पस्वरूपं अतश्चोत्प्रेक्ष्यन्ते-पुष्करिणीनां-बापीनां ये कल्लोला:-समुल्लसन्तस्तरङ्गास्तेषां यदाहननं-परस्परं प्रतिस्फालनं तत्समुद्भूताः फेनपिण्डा इव । एते दधिमुखपर्वताः सर्वेऽपि चतुःषष्टियोजनसहस्राण्युच्छ्रिता दश योजनसहस्राणि विस्तीर्णाः एक योजनसहनमधोऽवगाढाः उपर्यधश्च ४१४७२-९१ सर्वत्र समाः अत एव पल्यङ्कसंस्थानसंस्थिताः । तेष्वपि दधिमुखपर्वतेषु रुन्द्राणि-विशालानि जिनमन्दिराणि-सिद्धायतनानि वक्तव्यानि, यथाऽजनगिरिशिखरेषु अजनपर्वतोपरिवर्तिसिद्धायतमवक्तव्यतात्रापि वक्तव्येति भावः, तथैतासामेव वापीनामपान्तरालेषु द्वौ द्वौ पर्वतौ | स्तः । तत्स्वरूपमाह-'ते'इत्यादि गाथात्रयं, पूर्वाजनगिरेविदिक्षु व्यवस्थिता द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ प्रत्येक पर्वतद्वितयभावादष्टौ रतिकरनामानः पर्वताः सन्ति, ते च 'पद्मरागाभा' पद्मराग:-शोणमणिविशेषस्तद्वदाभा-प्रभा येषां ते तथा, अत | उत्प्रेक्ष्यन्ते-उपरिस्थिता:-तदुपरि वर्तमाना ये जिनेन्द्रा:-शाश्वतप्रतिमास्तेषां यत् स्नानं-फुङमजलं तत्संपर्कतः पाटला इव, सर्वेऽपि चैते रतिकराः प्रकामकोमलस्पर्शाः तथा सुरपतिसमूहकृतावासाः दश योजनसहस्राण्युच्छ्रिता गव्यूतसहस्र-सार्धयोजनशतद्वयमुद्विद्धाः उच्चत्वसमानविस्तरा दशयोजनसहस्रविस्तीर्णा इत्यर्थः सर्वत: समा झल्लरीसंस्थानसंस्थिता इति, तेष्वपि रतिकरेषु यथोक्तमानानि पूर्वोक्तप्रमाणानि जिनभवनानि ज्ञेयानि, तदेवमुक्ता पूर्वानगिरिवक्तव्यता, एतद्नुसारेण च शेषदिगजनगिरीणामपि सर्व वाच्यं, नवरं पुष्करिणीनां ॥४२८॥ नामसु विशेषः, तमेवाह-दाहिणे'त्यादि गाथाचतुष्कं, दक्षिणस्यां दिशि दक्षिणाने इत्यर्थः पूर्वस्यां दिशि भद्रा वापी दक्षिणस्यां Jan Education Internal For Private Personel Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy