SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ मात्रया मात्रया परिहीयमानस्य तस्य उपरि-पर्यन्तभागे शतदशकं-योजनसहस्रं विष्कम्भेन, एवं चैते चत्वारोऽप्यञ्जनगिरयो मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि च तनुकाः संवृत्ताः, तेषु चाखनगिरिषु घनमणिमयानि-नानाविधनिःसपनरत्ननिर्मितानि एकैकस्मिन्नेकैकसद्भावाच्चत्वारि सिद्धायतनानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनानि सिद्धायतनानि भवन्ति । अथैतेषामेव प्रमाणादिप्रतिपादनायाह-'जोयणे'त्यादि गाथात्रयं, तानि सिद्धायतनानि योजनशतमेकं दीर्घाणि-पूर्वपश्चिमतः द्वासप्ततिर्योजनान्युच्छ्रितानि रम्याणि-रमणीयानि पञ्चाशद्योजनानि विस्तृतानि-विस्तीर्णानि दक्षिणोत्तरतः, तथा एकैकस्यां दिशि एकैकसद्भावेन चत्वारि द्वाराणि येषु तानि चतुभराणि, सध्वजानि-सपताकानि, तथा प्रतिद्वारमेकैकस्मिन् द्वारे मणयः-चन्द्रकान्तादिरत्नविशेषास्तनिष्पन्नस्तोरणैः, प्रेक्षा-प्रेक्षणकं तदर्थ मण्डपा:-प्रेक्षामण्डपास्तैश्च प्रसिद्धस्वरूपैर्विशेषेण राजमानानि-शोभमानानि, तथा पञ्चधनुःशवसमुच्छ्रितैरष्टोत्तरशतसङ्ख्यैः ऋषभवर्धमानचन्द्राननवारिषेणाख्यैर्जिनैः शाश्वतप्रतिमामिर्युतानि-संयुक्तानि । तेषां सिद्धायतनानां मध्ये मणिमय्यः-सर्वास्मना रनमय्यः पीठिका-वेदिकाः प्रज्ञप्ताः, तासामुपरि महेन्द्रध्वजाः, महेन्द्रा इत्यतिमहान्तः समयभाषया ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्यैव-शक्रादेर्ध्वजा महेन्द्रध्वजाः, तेषां च पुरतः प्रत्येक योजनशतायामाः पञ्चाशद्योजनविष्कम्भा दशयोजनोद्वेषाः पुष्करिण्योवाप्यः प्रज्ञप्ताः, ताश्च पार्थेषु चतसृषु दिक्षु ककेल्लिसप्तपर्णचम्पकचूतवनयुक्ताः, तत्र पूर्वस्यां दिशि अशोकवनं दक्षिणस्यां सप्तच्छदवनं पश्चिमायां चम्पकवनं उत्तरस्यां च सहकारवनमिति । उक्ता अजनगिरिवक्तव्यता, अथ पुष्करिणीवक्तव्यतामाह-'नन्दु'इत्यादि गाथाद्वयं, तेषु चतुर्यु अजनगिरिषु मध्ये योऽसौ पूर्व:-पूर्व दिग्भावी अजनगिरिस्तस्य चतुर्दिशि-चतसृषु दिक्षु लक्षमेकं गत्वा चतस्रः पुष्करिण्यः सन्ति, तद्यथा-पूर्वस्यां नन्दोत्तरा दक्षिणस्यां नन्दा अपरस्यां आनन्दा उत्तरस्यां नन्दिवर्धना च, ताश्च विष्कम्भायामाभ्यां योजन Jan Education International For Private Personal Use Only www.ainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy