________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ४२७ ॥
ओ । उत्तरदिसाऍ पुत्तवावीमाणा उ बारसवि ॥ ८९ ॥ सताओ वावीओ दहिमुहसेलाण ठापभूयाओ | अंजणगिरिपमुहं गिरितेरसगं विज्जइ चउदिसिंपि ॥ ९० ॥ इय बावन्नगिरी सरसिहरgratefaणं । पूयणकए चउचिहदेवनिकाओ समेइ सया ॥ ९१ ॥
इतो जम्बूद्वीपादष्टमो वलयाकारः कामं कमनीयतया सकलसुर विसरानन्दी नन्दीश्वरो नाम द्वीपोऽस्ति, नन्द्या - अत्युदारजिनमन्दिरोधान पुष्करिणीपर्वतप्रभृतिप्रभूतपदार्थसार्थसमुद्भूतयाऽत्यद्भूतया समृद्ध्या ईश्वरः - स्फातिमान्नन्दीश्वरः, स च विष्कम्भे-चक्रवालविष्कम्भतः एकं कोटिशतं त्रिषष्टिः कोट्यश्चतुरशीतिर्लक्षाः १६३८४००००० इत्येतावद्योजनप्रमाणः, योजनानि चात्र प्रमाणाङ्गुलनिष्पन्नान्यवसेयानि । अथाञ्जनशैला दिवक्तव्यतामाह - 'एयन्तो' इत्यादि गाथात्रिकं एतस्य नन्दीश्वरस्य द्वीपस्यान्तः - मध्यभागे पूर्वादिषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारः सर्वात्मनाऽञ्जनरत्नमया अञ्जनगिरयः प्रज्ञप्ताः, तद्यथा- पूर्वस्यां दिशि देवरमणः दक्षिणस्यां नित्योद्योतः पश्चिमायां स्वयंप्रभः उत्तरस्यां रमणीयः, उक्तं च — “पुव्वदिसि देवरमणो निचुज्जोओ य दाहिणदिसाए । अवरदिसाऍ सयंपभ | रमणिज्जो उत्तरे पासे ॥ १ ॥ " कथंभूतास्ते इत्याह-अजनरत्नानां - कृष्णरत्न विशेषाणां ये श्यामाः करप्रसराः - प्रभापटलानि तैः पूरिताः - परिपूर्णतां नीता उपान्ताः - पर्यन्तभागा येषां ते तथा, एवंविधाश्चोत्प्रेक्ष्यन्ते - बालतमालवनावलीयुता इव - तरुणतरतमालतरुवनमण्डली| वलयिता इव, तथा घनपटलकलिता इव प्रावृषेण्यपयोदपङ्कियुक्ता इव, धाराधरा हि विविधोद्यानहृद्याः सजल नलदजालमालिनो हि भवन्तीति, तथा तेषामञ्जनकपर्वतानामेकैकोऽञ्जनकः पर्वतः प्रत्येकं चतुरशीतियोजनसहस्राणि उच्च :- उच्छ्रितः एकं योजनसहस्रमवगाढोभूमिप्रविष्टः, तथा तस्यैकैकस्याञ्जनगिरेर्मूले - घरणितले सहस्रदशकं - दश योजन सहस्राणि भवन्ति विष्कम्भे- विस्तरतः, तदनन्तरं च
Jain Education International
For Private & Personal Use Only
२६९ न न्दीश्वरद्वीपस्वरूपं
गा. १४७२-९१
॥ ४२७ ॥
www.jainelibrary.org