________________
CSCRCHCROCESSOCTOCHE
तुमिच्छति तदाऽन्यस्यां वसतौ व्रजन्ति, यद्यन्या वसतिर्नास्ति तदा रात्रौ सागारिकासंलोके वृषभास्तद्नाथमृतकमन्यत्र प्रक्षिपन्ति, अथ तत्कलेवरं श्वशृगालादिमिः समन्ततो विकीर्ण ततः समन्ततो निभालयन्ति यद् दृष्टं तत्सर्वमपि त्यजन्ति इतरस्मिंस्तु प्रयत्ने कृतेऽप्यदृष्टे अशठा इतिकृत्वा शुद्धाः, स्वाध्यायं कुर्वन्ति, अपि न प्रायश्चित्तभाज इति भावः । संप्रति 'तदिवसभोइयाई' इत्यत्रोक्तमादिशब्द व्याख्यानयति-'मयहरे'यादि, महत्तरके-प्रामप्रधाने प्रकृते-प्रामाधिकारनियुक्ते बहुपाक्षिके-बहुस्खजने, चकारात् शय्यातरे, अन्य-15 स्मिन् वा प्राकृते मनुष्ये स्ववसत्यपेक्षया सप्तगृहाभ्यन्तरे मृते तद्दिवसं-एकमहोरात्रमस्वाध्यायः, किं कारणमत आह-निर्दुःखा अमी इत्यप्रीत्या गर्हासंभवात् , ततो न पठन्ति, (शनैर्वा पठन्ति ) यथा न कोऽपि शृणोतीति, महिलारुदितशब्दोऽपि यावत् श्रूयते तावन्न | पठन्ति । गतं व्युद्ग्रहजं, इदानीं शारीरिकस्यावसरः, तच्च द्विविधं-मानुषं तैरश्चं च, 'तत्र तैरश्चं त्रिधा-जलजं-मत्स्यादितिर्य| ग्भवं एवं गवादीनां स्थलजं मयूरादीनां च खजं, पुनर्जलजादिकं प्रत्येक द्रव्यादिभेदतश्चतुर्विधं, तानेव द्रव्यादीन् चतुरो भेदानाह'तिरी'त्यादि, द्रव्ये-द्रव्यतस्तिर्यक्पञ्चेन्द्रियाणां जलजादीनां रुधिरादिद्रव्यमस्वाध्यायिक, न विकलेन्द्रियाणां, क्षेत्रे-क्षेत्रतः षष्टिहस्ताभ्यन्तरे परिहरणीयं, न परतः, अथ तत्स्थानं तैरश्चेन पौद्गलेन-मांसेन समन्ततः काककुक्कुरादिभिर्विक्षिप्तेनाकीर्ण-व्याप्तं तदा यदि स ग्राम| स्तर्हि तस्मिन् तिसृभिः कुरथ्याभिरन्तरिते विकीर्णे पौद्गले स्वाध्यायः क्रियते, अथ नगरं तदा तत्र यस्यां राजा सबलवाहनो गच्छति | देवयानो रथो वा विविधानि वा वाहनानि गच्छन्ति तया महत्याऽप्येकया रथ्यया अन्तरिते स्वाध्यायः कार्यः, अथ स प्रामः सम|स्तोऽपि विकीर्णेन पौद्गलेनाकीर्णो विद्यते न तिमृभिः कुरध्यामिरन्तरितं तत्पौद्गलमवाप्यते तदा ग्रामस्य बहिः स्वाध्यायो विधेयः । गता | क्षेत्रतो मार्गणा, सम्प्रति कालतो भावतश्च तामाह-काले'त्यादि, काले-कालतस्तजलजादिगतं रुधिरादि संभवकालादारभ्य तिस्रः
RECARSAARCRAC
For Private Personal Use Only
Jain Education International
www.jainelibrary.org