SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ न्यतस्त्वष्टौ कथमिति चेदुच्यते-उद्गच्छंश्चन्द्रमा राहुणा गृहीतः, ततश्चतस्रः पौरुषी रात्रेर्हन्ति चतस्र आगामिनो दिवसस्य एवमष्टौ द्वादश पुनरेवं- प्रभातकाले चन्द्रमाः सग्रहण एवास्तमुपगतः ततश्चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगामिन्या राश्चतस्रो द्वितीयस्य दिवसस्य, अथवा औत्पातिकग्रहणेन सर्वरात्रिकं ग्रहणं सञ्जातं सग्रह एव निमग्नः, तत्र संदूषितरात्रेश्चतस्रः पौरुषीरन्यश्चाहोरात्रं, अथवा अभ्रच्छन्नतया विशेषपरिज्ञानाभावाच्च न ज्ञातं कस्यां वेलायां ग्रहणं ? प्रभाते च सग्रहो निमज्जन् दृष्टस्ततः समग्रा रात्रिः परिहृता अन्यश्चाहोरात्रमिति द्वादश । तथा सूर्यो जघन्येन द्वादश पौरुषीर्हन्ति उत्कर्षतो द्वावष्टौ - पोडश पौरुषीरित्यर्थः, कथमिति चेदुच्यते - सूर्यः सग्रह एवास्तमुपयातः, ततञ्चतस्रः पौरुषी रात्रेर्हन्ति चतस्र आगामिनो दिवसस्य चतस्रस्ततः परस्या रात्रेरेवं द्वादश, षोडश पुनरेवं-सूर्य उगच्छन् राहुणा गृहीतः सकलं च दिवसमुत्पातवशात्सग्रहः स्थित्वा सग्रह एवास्तं गतः, ततश्चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगामिन्या राश्चतस्रोऽपरदिवसस्य ततोऽपि चतस्रोऽपरस्या रात्रेः एवं षोडश पौरुषीर्हन्ति सग्रह उद्गतः सग्रह एवास्तमितः, तथा चोक्तम्" एयं उग्गच्छंत गहिए सग्गहनिवुड्डे दट्ठव्व” मिति, कथमिति चेदुच्यते - 'सूराई जेण होंतऽहोरत्त' त्ति सूर्यादयो येनाहोरात्राः, यतः सूर्यादिरहोरात्रस्ततो दिनमुक्ते सूर्ये स एव दिवसः सैव च रात्रिरस्वाध्यायिकतया परिहियन्ते, चन्द्रे तु तस्यामेव रात्रौ मुक्ते यावदपरचन्द्रो नोदेति तावदस्वाध्याय इति सैव रात्रिरपरं च दिनमित्येवमहोरात्रमस्वाध्यायः, अन्ये पुनराहुः आचीर्णमिदं - चन्द्रो रात्रौ गृहीतो रात्रावेव मुक्तस्तस्या एव रात्रेः शेषं वर्जनीयं यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता, सूर्योऽपि यदि दिवा गृहीतो दिवैव च मुक्तस्ततस्तस्यैव दिवसस्य शेषं रात्रिश्च वर्जनीयेति । गतं सदैवमस्वाध्यायिकं, इदानीं व्युद्ग्रहजमाह — 'वुग्गहे 'त्यादि गाथाद्वयं, व्युहे - परस्परविग्रहे दण्डिकादीनां, आदिशब्दात्सेनापत्यादीनां च परस्परं विग्रहेऽस्वाध्यायः, इयमत्र भावना - द्वौ दण्डिको सस्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy