SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ CACACC लकादिसंस्थितं दृश्यते, "दिसत्ति दिग्दाहः, विद्युत्-तडित् उल्का-सरेखा प्रकाशयुक्ता वा गर्जितं-जीमूतध्वनिः यूपको-वक्ष्यमाणलक्षणः यक्षादीप्तं नाम-एकस्यां दिशि अन्तराऽन्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः, एतेषु मध्ये गन्धर्वनगरादिकमेकैकां पौरुषीं हन्ति, एकैकं प्रहरं यावत्स्वाध्यायो न विधीयते इति भावः, गर्जितं पुनः द्विपौरुषी हन्ति, इह च गन्धर्वनगरं नियमात् सदेवम् , अन्यथा तस्याभावात् , शेषकाणि तु दिग्दाहादीनि भाज्यानि-कदाचित्स्वाभाविकानि भवन्ति कदाचिद्देवकृतानि, तत्र स्वाभाविकेषु स्वाध्यायो न परिहियते, किंतु देवकृतेषु, परं येन कारणेन स्फुटं वैविक्त्ये न तानि न ज्ञायन्ते तेन तेषामविशेषेण परिहारः, उक्तं च-"गंधव्वनगर नियमा सादिव्वं सेसगाणि भइयाणि । जेण न ननंति फुडं तेण उ तेसिं तु परिहारो॥१॥" [गान्धर्वनगरं नियमात् सदैवं शेष-1 काणि भक्तानि । येन न ज्ञायन्ते स्फुटं तेन तु तेषां परिहार एव ॥१॥ अथ दिग्दाहादिव्याख्यानमाह-'दिसी'त्यादि, दिशि-पूर्वादिकायां छिन्नमूलो दाहः-प्रज्वलनं दिग्दाहः, किमुक्तं भवति ?-अन्यतमस्यां दिशि महानगरं प्रदीप्तमिवोपरि प्रकाशोऽधस्तादन्धकार | इति दिग्दाहः, उल्का पृष्ठतः सरेखा प्रकाशयुक्ता वा तारकस्येव पातः, यूपको नाम शुक्लपक्षे त्रीणि दिनानि यावद्, द्वितीयस्यां तृती| यस्यां चतुर्ध्या चेत्यर्थः, सन्ध्याछेदः-सन्ध्याविभागः स आत्रियते येन स सन्ध्याच्छेदावरणश्चन्द्रः, इयमत्र भावना-शुक्लपक्षे द्वितीयातृतीयाचतुर्थीरूपेषु त्रिषु दिनेषु सन्ध्यागतश्चन्द्र इतिकृत्वा सन्ध्या न विभाव्यते ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावञ्चन्द्रः सन्ध्याच्छेदा-14 वरणः स यूपक इति, एतेषु त्रिषु दिनेषु प्रादोषिकं कालं न गृह्णन्ति प्रादोषिकी च सूत्रपौरुषीं न कुर्वन्ति, सन्ध्याच्छेदाविभावनेन कालवेलापरिज्ञानाभावादिति, न केवलं अमूनि सदेवानि, किंत्वन्यान्यपि, तान्येवाह-'चंदी'त्यादि, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरजनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूर्योपरागोऽपि, ततश्चन्द्रोपरागे सूर्योपरागे च तद्दिनेऽपगते इति वाक्यशेषः, तथा साभ्रे निरभ्रे वा CREAMGAM Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy