SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ४१९ ॥ नुभावान्मनुष्यवन्मैथुने निमज्जन्तः सर्वाङ्गीणं कायक्लेशजं स्पर्शानन्दमासाद्य तृप्यन्ति नान्यथेति, कार्यन - शरीरेण मनुष्यस्त्रीपुंसानामिव प्रवीचारो - मैथुनोपसेवनं ययोस्ती कायप्रवीचारौ, तथा स्पर्शेन द्वौ सनत्कुमारमाहेन्द्रौ सप्रवीचारौ, तद्देवा हि मैथुनाभिलाषिणो देवीनां स्तनाद्यवयवस्पर्शलीलयैव कायप्रवीचार देवेभ्योऽनन्तसुखमवाप्नुवन्ति तृप्ताश्च जायन्ते, देवीनामपि देवैः स्पर्शे कृते सति दिव्यप्रभावतः शुक्रपुद्गलसंचारेणानन्तगुणं सुखमुत्पद्यते, एवमग्रेऽपि भावना कार्या, तथा द्वौ ब्रह्मलोकलान्तकौ रूपदर्शने सप्रवीचारौ, देवीनां दिव्योन्मादजनकरूपावलोकनेनैव तत्र सुराः सुरतसुखजुषो जायन्त इत्यर्थः तथा द्वौ शुक्रसहस्रारौ देवीशब्दे श्रुते सति सप्रवीचारौ, सुरसुन्दरीणां सविलासगी तहसितभाषितभूषणादिध्वनि माहादकमाकर्ण्य उपशांतवेदास्तत्र देवा भवन्तीत्यर्थः तथा चत्वारः - आनतप्राणतारणाच्युताभिधानदेवलोक देवा मनसा सप्रवीचारा भवन्ति, ते हि यदा प्रवीचारचिकीर्षया देवीश्वित्तस्य गोचरीकुर्वन्ति तदैव तास्तत्संकल्पाज्ञानेऽपि तथाविधस्वभावतः कृताद्भुतशृङ्गाराः स्वस्थानस्थिता एव उच्चावचानि मनांसि दधाना मनसैव भोगायोपतिष्ठन्ते, तत इत्थमन्योऽन्यं मनःसङ्कल्पे दिव्यप्रभावादेव देवीषु शुक्रपुद्गलसंक्रमत उभयेषां कायप्रवीचारादनन्तगुणं सुखं संपद्यते तृप्तिश्वोल्लसतीति, उपरि च - मैवेयकादिषु स्त्रीप्रवीचारः - स्त्रीसेवा सर्वथा नास्तीति ॥ ३९ ॥ अत एवाह – 'गेवेज्जे' त्यादि, मैवेयकेषु नवसु अनुत्तरविमानेषु पञ्चसु अप्रवीचारा - मैथुन सेवाविरहिता भवन्ति सर्वेऽपि सुरा देवाः, नन्वेवं तेषामप्रवीचाराणां सुखं किंचिन्न भविष्यतीत्याह-सप्रवीचार स्थितिभ्यो देवेभ्यः सकाशादनन्तगुण सौख्य संयुक्तास्ते ग्रैवेयका अनुत्तरसुराश्च भवन्ति, प्रतनुमोहोदयतया प्रशमसुखान्तर्लीनत्वात् ते च तथाभवस्वभावत्वेन चारित्रपरिणामाभावान्न ब्रह्मचारिण इति २६६ ॥ ४० ॥ संप्रति 'कण्हराईण सरूवं ति सप्तषष्ट्य |धिकदिशततमं दारमाह Jain Education International For Private & Personal Use Only २६५ भवु कृतीर्थं २६६ देवप्रविचारः गा. १४३८-४० ॥ ४१९ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy