________________
S
प्रव० सारोद्धारे तत्त्वज्ञानवि०
न्तरद्वीपा
।
॥४१६॥
यया षट्पञ्चाशदन्तरद्वीपा भवन्तीति ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४॥ २५ ॥ २६ ॥ २७॥ २८॥ अथैतेषु वर्तमा- |२६२ अनानां मनुष्याणां स्वरूपमाह-'संती' त्यादिगाथात्रयं,
संति इमेसु नरा बजरिसहनारायसंहणणजुत्ता। समचउरंसगसंठाणसंठिया देवसमरूवा ॥२९॥ अट्टधणुस्सयदेहा किंचूणाओ नराण इत्थीओ। पलियअसंखिजइभागआऊया लक्खणोवेया ॥३०॥ दसविहकप्पदुमपत्तवंछिया तह न तेसु दीवेसु । ससिसूरगहणमक्कूणयामसगाइया हुँति ॥ ३१॥ एतेषु सर्वेष्वप्यन्तरद्वीपेषु नरा:-पुरुषाः सन्ति-सदैव परिवसन्ति, ते च वर्षभनाराचसंहननिनः समचतुरस्रसंस्थानसंस्थिता देवलोकानुकारिरूपलावण्याकारशोभितविग्रहा अष्टधनुःशतप्रमाणशरीरोच्छ्रयाः, स्त्रीणां त्विदमेव प्रमाणं किञ्चिन्यूनं द्रष्टव्यं, तथा पल्यो-|| पमासङ्ख्येयभागप्रमाणायुषः समग्रशुभलक्षणतिलकमषाद्युपेताः स्त्रीपुरुषयुगलव्यवस्थिता दशविधकल्पपादपावाप्तवाञ्छितोपभोगसम्पदः प्रकृत्यैव प्रतनुक्रोधमानमायालोभाः संतोषिणो निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिके ममत्वकारणे ममत्वामिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः हस्त्यश्वकरभगोमहिष्यादिसद्भावेऽपि तत्परिभोगपराङ्मुखाः पादविहारचारिणो ज्वरादिरोगभूतपिशाचादिग्रहव्यसनविरहिताः, चतुर्थाचाहारमेते गृहन्ति, आहारश्च शाल्या दिधान्यसद्भावेऽपि न तन्निष्पन्नः, किंतु शर्करातोऽप्यनन्तगुणमाधुर्या मृत्तिका चक्रवर्तिभोजनादप्यधिकमधुराणि कल्पद्रुमपुष्पफलानि चेति, चतु:षष्टिश्च पृष्ठकरण्डकास्तेषां, षण्मासावशेषायुषश्वामी स्त्रीपुरुषयुगलं प्रसुवते, एकोनाशीतिदिनानि च तत्परिपालयन्ति, स्तोकस्नेहकषाय
ACSCAX
॥४१६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org