________________
| तरादिविदिक्षु चतसृष्वपि चत्वारि चत्वारि योजनशतानि लवणसमुद्रमवगाह्य चतुर्योजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातश्चतुर्योज| नशतप्रमाणान्तरा हयकर्णगजकर्णगोकर्णशष्कुलीकर्णनामानश्चत्वारोऽन्तरद्वीपाः, तद्यथा - एकोरुकस्य परतो ह्यकर्ण: आभासिकस्य परतो । गजकर्णः वैषाणिकस्य परतो गोकर्णः नङ्गोलिकस्य परतः शष्कुलीकर्ण इति, एवमग्रेऽपि भावना कार्या, तत एतेषामपि हयकर्णादीनां चतुर्णा द्वीपानां परतः पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं पञ्च पञ्च योजनशतानि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः पञ्च योजनशतप्रमाणान्तरा आदर्शमुखमेण्ढमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः, एतेषामप्यादर्शमुखादीनां चतुर्णा | द्वीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षट् षट् योजनशतानि व्यतिक्रम्य षट्षड्योजनशतायामविष्कम्भा जम्बूद्वीपबेदिकातः षड्योजनशतप्रमाणान्तरा अश्वमुखहस्तिमुखसिंहमुख व्याप्रमुखनामानश्चत्वारो द्वीपाः, एतेषामप्यश्वमुखादीनां चतुर्णां द्वीपानां परतो भूयो यथाक्रमं पूर्वोत्तरादिषु विदिक्षु प्रत्येकं सप्तयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातः सप्तयोजनशतप्रमाणान्तरा अश्वकहरिकर्णाकर्ण कर्णप्रावरणनामानश्चत्वारो द्वीपाः, एतेषामप्यश्वकर्णादीनां चतुर्णां द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्याष्ट्रयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातोऽष्टयोजनशतप्रमाणान्तरा उल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तामिधानाश्चत्वारो द्वीपाः, ततोऽमीषामप्युल्कामुखादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नवनवयोजनशतान्यतिक्रम्य नवयोजनशतायामविष्कम्भा जम्बूद्वीपवेदिकातो नवयोजनशतप्रमाणान्तरा घनदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः, एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसंख्यया अष्टाविंशतिः, एवं शिखरिण्यपि वर्षघरे - पर्वते लवणोदार्णवजलसंस्पर्शादारभ्य यथोक्तप्रमाणान्तराश्चतसृषु विदिक्षु व्यवस्थिता एकोरुकादिनामानोऽष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः, ततः सर्वस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org