SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 9STR- रोद्धारे २६१ असंहरणीयाः २६२ अम्तरद्वीपाः गा. १४१९-३१ नवि० ॥४१५॥ घणदंत लट्ठदंता य गूढदंताय सुद्धदेता य २८। वासहरे सिहरिमि य एवं चिय अट्टवीसावि ॥ २७॥ तिन्नेव हुंति आई एगुत्तरवाड्डिया नवसयाओ । ओगाहिऊण लवणं तावइयं चेवविच्छिन्ना ॥२८॥ इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी महाहिमवदपेक्षया क्षुल्लो-लघुहि- मवन्नामा पर्वतः समस्ति, तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्र विनिर्गते, तत्र ईशान्यां दिशि या निर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवणसमुद्रं गत्वा-अवगाह्य अत्रान्तरे योजनशतत्रयायामविष्कम्भः किश्चिन्यूनकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनुःशतप्रमाणविकम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकया वनखण्डेन च सर्वतः परिमण्डितः, एवं सर्वेऽप्यन्तरद्वीपाः प्रत्येकं पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तपरिसराः समवसेयाः, एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाझ द्वितीय दंष्ट्राया उपरि एकोरुकबीपप्रमाण आभासिकनामा द्वीपो वर्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादा. रभ्य दक्षिणपश्चिमायां दिशि नैर्ऋतकोणे इत्यर्थः त्रीणि योजनशतानि लवणसमुद्रमवगाह्य दंष्ट्राया उपरि यथोक्तप्रमाणो वैषाणिकनामा द्वीपः, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि वायव्यकोणे इत्यर्थः त्रीणि योजनशतानि लवण|समुद्रमध्ये चतुर्थी दंष्ट्रामतिक्रम्यात्रान्तरे पूर्वप्रमाणो नाङ्गोलिकनामा द्वीपः, एवमेते हिमवतश्चतसृष्वपि विदिक्षु तुल्यप्रमाणाश्चत्वारोन्तरे-लवणसमुद्रमध्ये द्वीपा अन्तरद्वीपा अवतिष्ठन्ते, तत एतेषामेकोरुकादीनां चतुर्णा द्वीपानां परतः 'सपडिदिसं'ति प्रत्येकं पूर्वो OSAXSASA ॥४१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy