________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ ४१४ ॥
संस्थाप्यते, ततः पुनरपि बिन्दूनां शतादेककानां विंशतेर्द्विकानां चतुष्टयाश्च परतो द्वितीयस्त्रिकः स्थाप्यते, एवं बिन्दूनां शते एककानां विंशतौ द्विकानां च चतुष्टये चतुष्टयेऽतिक्रान्ते तृतीयश्चतुर्थावपि त्रिकौ स्थाप्यौ, तद्नु चतुर्थत्रिकस्याप्यत्रे बिन्दूनां शतमेककानां विंशतिर्द्विकानां चतुष्टयं च स्थाप्यते, ततो जातानि पश्च शतानि बिन्दूनां शतमेककानां विंशतिर्द्विकानां चत्वारश्च त्रिकाः, अत्रान्तरे चतुर्णा बिन्दूनामप्रतोऽसङ्ख्यातगुणवृद्धिसंज्ञकः प्रथमचतुष्कः स्थाप्यते, ततो भूयोऽपि पश्च शतानि बिन्दूनां शतमेककानां विंशतिद्विकानां चत्वारश्च त्रिकाः प्रागिव स्थाप्यन्ते ततो द्वितीयचतुष्कः स्थाप्यः, एवं बिन्दूनां शतपञ्चके एककानां शते द्विकानां विंशतौ त्रिकाणां चतुष्टये चतुष्टये चातिक्रान्ते तृतीयचतुर्थावपि चतुष्कौ क्रमेण स्थाप्यौ, ततश्चतुर्थचतुष्कस्याप्रे पश्चमचतुष्कयोग्यं दलिकं | स्थापयित्वा अनन्तगुणवृद्धिसंज्ञकः प्रथमः पञ्चको न्यस्यते, एवमनेनैवानन्तरोक्तेन क्रमेण द्वितीयतृतीयचतुर्था अपि पञ्चका न्यसनीयाः, ततश्चतुर्थपञ्चकस्याप्य पञ्चमपञ्चकोचितं दलिकं लिख्यते, न च पञ्चकः स्थाप्यते, तत आद्यन्तयोः प्रत्येकं बिन्दुचतुष्टयेन प्रथमं षट्स्थानं समाप्यते, यदा पुनः प्रथमानन्तरं द्वितीयं षट्स्थानकं स्थापयितुमिष्यते तदा तदपेक्षया प्रथमं पृथक्चत्वारो विन्दवः स्थाप्यन्ते, तदनन्तरमेककादिः सर्वोऽपि पूर्वोक्तविधिः क्रमेण कर्तव्य इति, साम्प्रतमङ्कानां बिन्दूनां च सर्वसङ्ख्या कथ्यते तत्रैकस्मिन् षट्स्थानके चत्वारः पथ्वका भवन्ति, ततः पञ्चभिर्वा गुणयेदिति करणवशाश्चतुर्णा पञ्चकानां पञ्चभिर्गुणने लब्धा विंशतिचतुष्काः, एतेषामपि पञ्चभिर्गुणने लब्धं शतं त्रिकाणां तेषामपि पश्चभिर्गुणने लब्धानि पञ्च शतानि द्विकानां तेषामपि च पश्चभिर्गुणने लब्धे द्वे सहस्रे सार्धे एककानां तेषामपि च पञ्चभिर्गुणने लब्धानि द्वादश सहस्राणि सार्धानि बिन्दूनां १२५००, इयमेकस्मिन् पट्स्थाने सर्वसङ्ख्या, एवं शेषेष्वपि षट्स्थानकेषु प्रतिपत्तव्यमिति, २६०॥१८॥ इदानीं 'अवहरिडं जाई नेव तीरंति' स्ये कषष्ट्यधिकद्विशततमं द्वारमाह
Jain Education International
For Private & Personal Use Only
२६० षड्वृद्धिहानी गा. १४१८
॥ ४१४ ॥
www.jainelibrary.org