________________
A
SSIREC%%
गाधिकानि पुनरप्येवं-पाश्चात्यस्य संयमस्थानस्य सत्कानां निर्विभागभागानामसङ्ख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते सोऽसङ्ख्येयतमो भागः, ततस्तेनासयेयतमेन भागेनाधिकान्यसङ्ख्येयभागाधिकानि स्थानानि वेदितव्यानि, सङ्ख्येयभागाधिकानि त्वेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्योत्कृष्टेन सयेयेन भागे हृते सति यद्यल्लभ्यते स सङ्ख्येयतमो भागः, ततस्तेन सषेयत| मेन भागेनाधिकानि स्थानानि वेदितव्यानि, सङ्ख्येयगुणवृद्धानि पुनरेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन सङ्ख्येयकमानेन राशिना गुण्यन्ते गुणिते च सति यावन्तो यावन्तो भवन्ति तावत्तावत्प्रमाणानि सङ्ख्येयगुणाधिकानि स्थानानि द्रष्टव्यानि, एवमसङ्ख्येयगुणवृद्धान्यनन्तगुणवृद्धानि च भावनीयानि, नवरमसयेयगुणवृद्धौ पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य निर्विभागा भागा असङ्ख्येयलोकाकाशप्रदेशप्रमाणेनासङ्ख्येयेन गुण्यन्ते, अनन्तगुणवृद्धौ तु सर्वजीवप्रमाणेनानन्तेनेति । अयं च षट्स्थानकविचारः स्थापनां विना मन्दबुद्धिभिः सम्यगवबोध्धुं न शक्यते, सा च स्थापना कर्मप्रकृतिपटेभ्यः प्रतिपत्तव्या, विस्तरभयात्तु नेह प्रद. श्यते, केवलं कियन्तमपि स्थानाशून्यार्थ स्थापनाप्रकारं प्रकाशयामः, तथाहि-प्रथमं तावत्तिर्यक्पङ्को चत्वारो बिन्दवः स्थाप्यन्ते, तेषां च कण्डकमिति संज्ञा, सर्वेषामपि चैतेषामन्योऽन्यमनन्तभागवृद्ध्या वृद्धिरवसेया, ततस्तेषामग्रतोऽसङ्ख्यातभागवृद्धिसंज्ञक एककः स्थाप्यते, ततो भूयोऽपि चत्वारो बिन्दवः, तत एकक इत्यादि तावदवसेयं यावद्विंशति बिन्दुवश्चत्वारश्चैकका जाता:, तदनु सङ्ख्यातभागवृद्धिसंज्ञको द्विकः स्थाप्यते, ततः पुनरपि विंशतिबिन्दवश्चत्वारश्चैककाः, ततो द्वितीयो द्विकः, एवं विंशतेविंशतेर्बिन्दूनामन्तराऽन्तरा चतुर्णा चतुर्णामेककानामवसाने तृतीयचतुर्थावपि द्विको क्रमेण स्थाप्यौ, तदनु भूयोऽपि चतुर्थद्विकस्याने विंशतिबिन्दवश्चत्वारश्चैककाः, एवं च जातं बिन्दूनां शतं, एककानां विंशतिश्चत्वारश्च द्विकाः, अत्रान्तरे चतुर्णा बिन्दूनामप्रतः सङ्ख्यातगुणवृद्धिसंज्ञकः प्रथमस्त्रिकः
4%AAAAAAAA
EX.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org