________________
प्रव० सारोद्धारे तत्त्वज्ञा
नवि० ॥४१३॥
२६० षड्वृद्धिहानी गा.१४१८
ROCKSMSA006
नानि तावद्वाच्यानि यावत्कण्डकमात्राणि, ततः पूर्वपरिपाट्या पुनरप्यसङ्ख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वाच्यं, ततो भूयोऽपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागुक्तानि भवन्ति तावन्ति तथैव वाच्यानि, ततो भूयोऽप्येकमनन्तगुणाधिक स्थानं, ततः पुनरपि मूलादारभ्य तावन्ति स्थानानि तथैव वाच्यानि, ततः पुनरप्येकमनन्तगुणाधिकं स्थानं, एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वाच्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् , इत्थंभूतान्यसलयेयानि कण्डकानि समुदितानि एकं पदस्थानकं भवति, अस्माच षटस्थानकादूर्ध्वमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयं, एवं षट्स्थानकान्यपि तावद्वाच्यानि यावदसायलोकाकाशप्रदेशप्रमाणानि भवन्ति, उक्तं च-"छठ्ठाणगअवसाणे अन्नं छहाणयं पुणो अन्नं । एवमसंखा लोगा छठ्ठाणाणं मुणेयव्वा ।। १॥" अस्मिंश्च षट्स्थानके यादृशोऽनन्ततमो भागोऽसहयेयतमः समययतमो वा गृह्यते यादृशस्तु सङ्ख्येयोऽसङ्ख्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेक्षयाऽनन्तगुणवृद्धता तस्य सर्वजीवसल्याप्रमाणेन राशिना भागो हियते हृते च भागे यल्लब्धं सोऽनन्ततमो भागः तेनाधिकमुत्तरं संयमस्थानं, किमुक्तं भवति-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागा|स्तेषां सर्वजीवसख्याप्रमाणेन राशिना भागे हृते सति ये लभ्यन्ते तावत्प्रमाणैर्निविभागैर्भागैर्द्वितीयसंयमस्थाने निर्विभागा भागा अधिकाः प्राप्यन्ते, द्वितीयसंयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यावन्तो लभ्यन्ते तावत्प्रमाणेनिर्विभागै गैरधिकास्तृतीये संयमस्थाने निर्विभागा भागाः प्राप्यन्ते, एवं यद्यसंयमस्थानमनन्तभागवृद्धमुपलभ्यते तत्तलाश्चात्यस्य संयमस्थानस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते तावत्प्रमाणेनानन्ततमेन भागेनाधिक्यमवगन्तव्यं । असोयभा
४१२॥
Jan Education Intemanong
For Private
Personel Use Only
www.jainelibrary.org