________________
पुनर्यान्यन्यानि संयमस्थानानि अङ्गुलमात्रक्षेत्रासयेयभागगतप्रदेशराशिप्रमाणानि तानि यथोत्तरमनन्तभागवृद्धान्यवसेयानि, एतानि च समुदितानि द्वितीयं कण्डकं, तस्य च द्वितीयकण्डकस्योपरि यदन्यत् संयमस्थानं तत्पुनरपि द्वितीयकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षयाऽसयभागवृद्धं ततो भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकम सङ्ख्येयभागवृद्धं संयमस्थानं, एवमनन्तभागाधिकैः कण्डकप्रमाणैः संयमस्थानैर्व्यवहितान्यसङ्ख्येयभागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति, चरमादसत्येयभागाधिकसंयमस्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि वाक्यानि ततः परमेकं सयभागाधिकं संयमस्थानं, ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं सङ्ख्येयभागाधिकं संयमस्थानं वाच्यं इदं च द्वितीयं सत्येयभागाधिकं स्थानं, ततोऽनेनैव क्रमेण तृतीयं वाच्यं, अमूनि चैवं सत्येयभागाधिकानि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण भूयो - ऽपि सङ्ख्येयभागाधिकस्थानप्रसंगे सत्येयगुणाधिकमेकं स्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्राग्व्यतिक्रान्तानि तावन्ति भूयोऽपि तथैव वाच्यानि, ततः पुनरप्येकं सत्येयगुणाधिकं स्थानं वाच्यं ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकं सत्येयगुणाधिकं स्थानं, अमून्यप्येवं सत्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति, ततस्तेनैव क्रमेण पुनः सङ्ख्येयगुणाधिकस्थानप्रसंगेऽसङ्ख्येयगुणाधिकं स्थानं वाच्यं ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव भूयोऽपि वाच्यानि ततः पुनरप्येकमसङ्ख्येयगुणाधिकं संयमस्थानं वाच्यं ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकमसङ्ख्येयगुणाधिकं, अमूनि चैवमसङ्ख्येयगुणाधिकानि संयमस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org