________________
प्रव० सा
अनन्तगुणता च सर्वत्रापि षट्स्थानकचिन्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण द्रष्टव्या इयमत्र भावना सर्वजघन्यमपि रोद्धारे सर्वविरति विशुद्धिस्थानं केवलिप्रज्ञाच्छेदन केन विच्छिद्यते, छित्त्वा च निर्विभागा भागाः पृथक् क्रियन्ते, ते च निर्विभागा भागाः सर्व| संकलनया विभाव्यमाना यावन्तः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगता निर्विभागाः भागाः सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना जायन्ते तावत्प्रमाणाः प्राप्यन्ते, अत्राप्ययं भावार्थ:-- इह किलासत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा भागा दश सहस्राणि सर्वजीवानन्तकप्रमाणश्च राशिः शतं, ततस्तेन शतसङ्ख्येन सर्वजीवानन्तकमानेन राशिना दशसहस्रसङ्ख्या: सर्वोत्कृष्ट देश विरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जाता दश लक्षाः, एतावन्तः किल सर्वजघन्यस्यापि सर्वविरतिविशुद्विस्थानस्य निर्विभागा भागा भवन्ति, एते च सर्वजघन्यचारित्रसत्कविशुद्धिस्थानगता निर्विभागा भागाः समुदिताः सन्तः सर्वजघन्यं संयमस्थानं भण्यते, तस्मादनन्तरं यद् द्वितीयं संयमस्थानं तत् पूर्वस्मादनन्तभागवृद्धं किमुक्तं भवति ? - प्रथमसंयमस्थानगतनिविभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागवृद्धं एवं पूर्वस्मात् पूर्वस्मादुत्तरोत्तराणि निरन्तरमनन्तभागवृद्धानि संयमस्थानानि अङ्गुलमात्रक्षेत्रासङ्ख्ये य भागगतप्रदेशर शिप्रमाणानि वाच्यानि, एतानि च समुदितानि संयमस्थानान्येकं कण्डकं भवति, कण्डकं नाम समयपरिभाषया अङ्गुलमात्रक्षेत्रासयेयभागगतप्र| देशराशिप्रमाणा सङ्ख्याऽभिधीयते, उक्तं च- “कण्डेति एत्थ भन्नइ अंगुलभागो असंखेज्जो” [कण्डकमिति भण्यतेऽङ्गुलभागोऽसत्येयः ] तस्माच्च कण्डकात् परतो यदन्यदनंतरं संयमस्थानं तत् पूर्वस्मादसङ्ख्येयभागाधिकं एतदुक्तं भवति — पाश्चात्यकण्डकसत्कचरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकानन्तरे संयमस्थाने निर्विभागभागगतप्रदेशा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणि
तत्वज्ञा
नवि० ॥ ४१२ ॥
Jain Education International
For Private & Personal Use Only
२६० षड्वृद्धि हानी
गा. १४१८
॥ ४१२ ॥
www.jainelibrary.org