________________
। वस्तुलराजिकादीनामयपले त्यादि, देपला निष्पद्यते,
कादिपत्रनिर्मितं, तथा डाको वस्तुलराजिकादीनां भर्जिकाहिङ्गुजीरकादिभिर्युता सुसंस्कृता, सा च रसाला ज्ञेया या मार्जितेति लोके प्रसिद्धा, तस्याश्चेदं-वक्ष्यमाणं स्वरूपं । तदेवाह-दो घयपले' त्यादि, द्वे पले घृतस्य एकं पलं मधुनः अर्धाढको दनः विंशतिर्मरिचानि वर्तितानि दश च पलानि खण्डस्य गुडस्य वा, एतैः पदार्थमिलितै रसाला निष्पद्यते, एषा च नृपतीना-राज्ञामुपलक्षणत्वादीश्वरलोकस्य योग्या-उचितेति, तथा पानं-सुरादि, आदिशब्दात्सर्वमद्यभेदपरिग्रहः, तथा पानीयं-सुशीतलं सुस्वादु च जलं, पानकं पुनरत्रद्राक्षाखर्जूरादिकृतं पानकप्रमुखं, तथा शाकः स उच्यते यत्तक्रेण सिद्धं-निष्पन्नं वटकादीति, २५९॥ १३ ॥ १४ ॥१५॥ १६ ॥१७॥ सम्प्रति 'छट्ठाणबुड्डिहाणि'त्ति षष्ट्यधिकद्विशततमं द्वारमाह
वुड्डी वा हाणीवा अणंत १ अस्संख २ संखभागेहिं ३ । वत्थूण संख ४ अस्संख ५ णंत ६ गुणणेण
य विहेया ॥१८॥ अनन्ताऽसङ्ख्यातसङ्ख्यातभागैः सङ्ख्यातासङ्ख्यातानन्तगुणेन च वस्तूनां-पदार्थानां वृद्धिर्वा हानिर्वा विधेया, इह षट्स्थानके त्रीणि स्थानानि भागेन-भागहारेण वृद्धानि हीनानि वा भवन्ति, त्रीणि च स्थानानि गुणनेन-गुणकारेण, 'भागो तिसु गुणणा तिसु' इति वचनात् , तत्र भागहारेऽनन्तासङ्ख्यातसङ्ख्यात लक्षणः क्रमः, गुणकारे च सङ्ख्यातासङ्ख्यातानन्तलक्षण इति, अययर्थः-सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धिा हानिर्वा चिन्त्यमाना षट्स्थानगता प्राप्यते, तद्यथा-अनन्तभागवृद्धिः असङ्ख्यातभागवृद्धिः सङ्ख्यातभागवृद्धिः सङ्ख्यातगुणवृद्धिः असङ्ख्यातगुणवृद्धिः अनन्तगुणवृद्धिश्च, एवं हानिरपि, तत्र किश्चित्सुगमत्वात्सर्वविरतिविशुद्धिस्थानान्येवाश्रित्य लेशतो भाव्यते-इह हि सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानात् सर्वजघन्यमपि सर्वविरति विशुद्धिस्थानमनन्तगुणं,
CACASEARCH
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org