________________
प्रव० सा
रोद्धारे
तत्त्वज्ञा
नवि०
॥ ४१० ॥
मृतपयोदनां च पानं तथा, चन्द्रार्कप्रसनं स्थितं शिवपदे स्वापे प्रशस्तं नृणाम् ॥ १ ॥" इत्यादि २, इष्टमनिष्टं च यत्स्वरविशेषतः षड्डादिस्वरसप्तकविभागतः शकुनरुतरूपाद्वा परस्मै कथ्यते तत् स्वरनामकं निमित्तं यथा - " सज्जेण लब्भए वित्ति, कयं च न विण| सइ । गावो मित्ताय पुत्ता य, नारीणं चेव वल्लहो ॥ १ ॥।” इत्यादि, यद्वा - 'चिलिचिलिसहो पुन्नो सामाए सूलिसूलि धन्नो उ । | चेरी चेरी दित्तो चिकुत्ती लाभहेउति ||१||' इत्यादि ३, सहजरुधिरवृष्ट्यादि यस्मिन् जायते ( भण्यते) तदुत्पाताभिधं निमित्तं, आदिशब्दादस्थिवृष्ट्यादिपरिग्रहः, यथा - "मज्जानि रुधिरास्थीनि, धान्याङ्गारान् वसां तथा । मघवा वर्षते यन्त्र, भयं विद्याच्चतुर्विधम् ॥ १ ॥ |” इत्यादि ४, प्रहवेधभूताट्टहास प्रमुखमान्तरिक्षं निमित्तं, तत्र प्रहवेधो - प्रहस्य ग्रहमध्येन निर्गमः, भूताट्टहासः - अतिमहानाकाशे आकस्मिकः किलकिलारावः, यथा - " भिनत्ति सोमं मध्येन, ग्रहेष्वन्यतमो यदा । तदा राजभयं विद्यात् प्रजाक्षोभं च दारुणम् ॥ १ ॥ इत्यादि, प्रमुख प्रहणाद्गन्धर्वनगरादिपरिग्रहः, यथा - " कपिलं शस्यघाताय, माजिष्ठं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न | संशयः ॥ १ ॥ गंधर्वनगरं स्निग्धं, सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥ २ ॥" इत्यादि ५, भूमिकसम्पादिभिर्विकारैः शुभाशुभं यद् ज्ञायते तद्भौमं निमित्तं यथा - "शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च राजा राष्ट्रं च पीड्यते ॥ १” ६, इह-अस्मिन् शास्त्रे व्यञ्जनं-मषादि, लाञ्छनप्रमुखं तु लक्षणं भणितं यथा - " नाभ्यधस्ताद्भवेद्यस्या, | लाञ्छनं मशकोऽपि वा । कुङ्कुमोदकसङ्काशं, सा प्रशस्ता निगद्यते || १ ||" इत्यादि, निशीथग्रन्थे पुनरित्थमुक्तं - "माणाइगं लक्खणं मसाइगं वंजणं, अहवा जं सरीरेण सह समुप्पन्नं तं लक्खणं पच्छा उप्पन्नं वंजण" मिति, तदेवं शुभाशुभसूचकान्यङ्गादीन्यष्टावपि प्रतिपादितानीति, लक्षणानि च पुरुषविभागेनेत्थं निशीथे प्रोक्तानि - " पागयमणुवाणं बत्तीसं अठ्ठसयं बलदेववासुदेवाणं अट्ठसहस्सं चक्कव
Jain Education International
For Private & Personal Use Only
२५७ अ-. ष्टांगनिमि
तंगा. १४-५-९
॥ ४१० ॥
www.jainelibrary.org