SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ USACR सर्व-समस्तमलोकाकाशं, अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन सर्वत्र संबन्धनीयः, स च तथैव संबन्धितः, एते-प्रदर्शितस्वरूपाः प्रषडपि राशयोऽनन्तका ज्ञेयाः ॥ २५६ ॥४॥ इदानीं 'अडंगनिमित्ताण'ति सप्तपञ्चाशदधिकद्विशततमं द्वारमाह अंगं १ सुविणं २ च सरं ३ उपायं ४ अंतरिक्ख ५ भोमं च ६। वंजण ७ लक्खण ८ मेव य अकृपयारं इह निमित्तं ॥५॥ अंगप्फुरणाईहिं सुहासुहं जमिह भन्नइ तमंग १ तह सुसुमिणयदुस्सुमिणएहिं जं सुमिणयंति तयं २॥६॥ इमणिहूं जं सरविसेसओ तं सरंति विन्नेयं । रुहिरवरिसाइ जंमिं जायइ भन्नइ तमुप्पायं ४ ॥७॥ गहवेहभूयअट्टहासपमुहं जमंतरिक्खं तं ५। भोमं च भूमिकंपाइएहिं नज्जइ वियारेहिं ६॥८॥ इह वंजणं मसाई ७ लंछणपमुहं तु लक्खणं भणियं ८।सुहअसुहसूयगाई अंगाईयाइं अट्ठावि ॥९॥ अङ्गं स्वप्नः स्वर उत्पात आन्तरिक्षं भौमं व्यञ्जनं लक्षणं चेत्येवमष्टप्रकार-अष्टविधमिह-शास्त्रे निमित्तं भवति, अतीतानागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्तं हेतुर्यद्वस्तुजातं तन्निमित्तं, सूत्रे स्वप्नादिपदेषु प्राकृतत्वान्नपुंसकत्वमिति ॥ ५॥ साम्प्रतमष्टप्रकारमपि निमित्तं क्रमेण व्याख्यातुमाह-'अंगे'त्यादिगाथाचतुष्कं, अङ्गस्फुरणादिभिः-शरीरावयवस्पन्दप्रमाणादिभिर्यदिह वर्तमानमतीतमनागतं वा शुभं वा-प्रशस्तमशुभं वा-अप्रशस्तं अन्यस्मै कथ्यते तद्भण्यतेऽङ्गायं निमित्तं, यथा-"दक्षिणपार्श्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिर्ललाटे स्यात् ॥ १॥” इत्यादि, १ तथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुभं तत्स्वमाख्यं निमित्तं, यथा-"देवेज्यात्मजबान्धवोत्सवगुरुच्छत्राम्बुजप्रेक्षणं, प्राकारद्विरदाम्बुदद्रुमगिरिप्रासादसंरोहणम् । अम्भोधेस्तरणं सुरा EACOCCASS Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy