SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 18 ॥ ९९ ॥ तिरिय पवित्थरमाणो आवरयंतो सुरालयचउक्कं । पंचमकप्पे रिट्ठमि पत्थडे चउदिसिं मिलिओ ॥। १४०० ॥ हेट्ठा मल्लयमूलट्ठिइडिओ उवरि बंभलोयं जा । कुक्कुडपंजरगागारसंठिओ सो तमक्काओ ॥ १ ॥ दुविहो से विकखंभो संखेज्जो अत्थि तह असंखेज्जो । पढमंमिवि विकखंभो संखेज्जा जोयणसहस्सा ॥ २ ॥ परिहीऍ ते असंखा बीए विक्खंभपरिहिजोएहिं । हुंति असंखसहस्सा नवरमिमं होइ वित्थारो ॥ ३ ॥ जम्बूद्वीपादसङ्खयेयतमो योऽसावरुणवरसमुद्रस्तमाश्रित्य द्विचत्वारिंशद्योजनसहस्राणि जगत्या जलं विलङ्घय समश्रेण्या - सममित्तितया एकविंशत्यधिकानि सप्तदश योजनशतानि यावद्वलयाकारस्तमोरूपो देवानामपि तत्रोद्योताभावेन महान्धकारात्मकत्वादुष्काय उल्लसितः, अयमर्थ: - एतस्माज्जम्बूद्वीपात्तिर्यगसङ्ख्यातद्वीपसमुद्रान् व्यतिक्रम्यारुणवरनामा द्वीपः समस्ति तद्वेदिकापर्यन्ताद् द्विचत्वारिंशयोजनसहस्राण्यरुणवरं समुद्रमवगाह्यात्रान्तरे जलोपरितनतलादूर्ध्वमेकविंशत्युत्तराणि सप्तदश योजनशतानि यावत्सममिन्याकारतया गत्वा वलयाकृतिरप्कायमयो महान्धकाररूपस्तमस्कायः समुल्लसित इति, अयं च तिर्यक्प्रविस्तरन् सुरालयचतुष्कं - सौधर्मेशानसनत्कुमारमाहेन्द्ररूपं देवलोकचतुष्टयमावृण्वन् - आच्छादयन्नूर्ध्व तावद्गतो यावत् पञ्चमे ब्रह्मलोकनामके कल्पे तृतीयेऽरिष्ठ विमानप्रस्तटे चतसृष्वपि | दिक्षु मिलित इति ॥ ९८ ।। ९९ ।। १०० ।। अथ तमस्कायस्य संस्थानमाह - 'हेट्ठे' त्यादि, अधस्ताद् - अधोभागे मल्लकमूलस्थितिस्थितो - मलकं-शरावं तस्य मूलं - बुधं तस्य स्थितिः - संस्थानं तया स्थितो- व्यवस्थितः, शरावबुध्राकार इति भावः, उपरिष्टाच ब्रह्मलोकं याक्त् कुर्कुटपखरकाकारसंस्थितः सः - पूर्वोक्तस्वरूपस्तमस्कायो भवति, तमसां - तमिस्रपुद्गलानां कायो - राशिस्तमस्काय इति ॥ १ ॥ अथास्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy