________________
वत एव लाभात्, ततश्चैवं भरतसंबन्ध्यडललक्षणं प्रमाणाङ्गुलमुत्सेधाजुलाच्चतुःशतगुणमेव स्यात् न सहस्रगुणमिति, सत्यमुक्तं, किंतु प्रमाणाङ्गुलस्यार्धतृतीयोत्सेधाङ्गुलरूपं पृथुत्वमस्ति, ततो यदा स्वकीयपृथुत्वेन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलात्प्रमाणा-18 कुलं चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन विष्कम्भेण शतचतुष्टयलक्षणं प्रमाणाङ्गुलदैर्ध्य गुण्यते तदोत्नाङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा च प्रमाणाङ्गुलसूचिर्जायते, इदमुक्तं भवति-अर्धतृतीयोत्सेधाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः |
कल्प्यन्ते, प्रथमा उत्सेधाङ्गुलेनैकाङ्गुलविष्कम्भा शतचतुष्टयदीर्घा द्वितीयापि तावन्मानैव तृतीयापि दैर्येण चतुःशतमानैव विष्कम्भ-18 ततस्त्वर्धाङ्गुलप्रमाणा, ततश्चैतस्या दैाच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः संपाद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा
इयमपि सिद्धा, ततस्तिमृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलेनाङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्य उत्सेधाङ्गुलात्प्रमाणाङ्गुलं सहस्रगुणदीर्घमुक्त, वस्तुतस्तु चतुःशतगुणदीर्घमेव, अत एव पृथ्वीपर्वतद्वी-8 पपयोराशिविमानादिमानान्यनेनैव चतुःशतगुणेनार्धतृतीयाङ्गुललक्षणखविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्या इति तावद् वृद्धसम्प्रदायादवगतं, तत्त्वं तु केवलिनो विदन्तीति । तथा तदेवोत्सेधाङ्गुल द्विगुणं सद् वीरस्य भगवतोऽपश्चिमतीर्थ-1 कृत एकमात्माङ्गुलं भणितं पूर्वाचा:, वर्धमानस्वामी हि भगवान् आदेशान्तरादात्माङ्गलेन चतुरशीतिरङ्गुलानि, उत्सेधाङ्गुलतस्तु सप्तहस्तमानत्वादष्टषष्ट्यधिकं शतं, तथा चानुयोगद्वारचूर्णिः-"वीरो आएसंतरओ आयंगुलेण चुलसीइअंगुलमुव्विद्धो उत्सेहंगुलओ सयमट्ट-1 सर्ल्ड हवई” इति, ततो द्वे उत्सेधाङ्गुले वीरस्यैकमात्माङ्गुलं भवति, अत्र च मतान्तराण्यधिकृत्य बहु वक्तव्यं तच्च नोच्यते ग्रन्थगौरवभयात् । इदं च त्रिविधमप्यङ्गुलं पुनः प्रत्येकं त्रिधा भवति, तद्यथा-सूच्यङ्गुलं प्रतराजुलं घनाङ्गुलं च, तत्र देयेणाङ्गुलायता बाहल्य
Jain Education International
For Private
Personel Use Only
www.jainelibrary.org