________________
प्रव० सा-8 पुरुषा:-चक्रवर्तिवासुदेवादयो यस्मिन् युगे-सुषमदुष्षमादिकाले निजाङ्गुलेनैवाष्टोत्तरं शतमङ्गुलानामुच्छ्रिता-उच्चा भवन्ति तेषां च स्वकी-|| । रोद्धारे याङ्गुलेनाष्टोत्तराङ्गुलशतोचानां पुरुषाणां यन्निज-आत्मीयमङ्गुलं तत्पुनरात्माङ्गुलं भवति, इह च ये यस्मिन् काले प्रमाणयुक्ताः पुरुषा तत्त्वज्ञा- भवन्ति तेषां संबन्धी आत्मा गृह्यते तत आत्मनोऽङ्गुलमात्माङ्गुलं ॥९४|| इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं नवि० 1 द्रष्टव्यं । 'जे पुणे त्यादि, ये पुनः पुरुषा एतस्मादष्टोत्तराङ्गुलशतलक्षणात्प्रमाणान्यूनाः समधिका वा तेषां संबन्धि यद्गुलमेतदात्माङ्गुलं
न भण्यते, किंतु तदाभासमेव-आत्माङ्गुलाभासमेव, परमार्थत आत्माङ्गुलं तन्न भवतीत्यर्थः, लक्षणशास्त्रोक्तस्वरादिशेषलक्षणवैकल्यसहायं ॥४०७॥
च यथोक्तप्रमाणाद्धीनाधिक्यमिह प्रतिषिद्धं न केवलमिति संभाव्यते, भरतचक्रवादीनां स्वाकुलतो विंशत्यधिकाङ्गुलशतमानानामप्यत्र निर्णीतत्वान्महावीरादीनां च केषाश्चिन्मतेन चतुरशीत्याद्यङ्गुलप्रमाणत्वादिति ॥ ९५ ॥ साम्प्रतं क्रमसंप्राप्तं प्रमाणाङ्गुलमाह'उस्सेहंगुले' त्यावि, उत्सेधाङ्गुलं-अनन्तरोक्तस्वरूपं सहस्रगुणं सदेकं प्रमाणाङ्गुलं भवति, परम-प्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणामुलं, नातः परं बृहत्तरमङ्गुलमस्तीति भावः, यदिवा समस्तलोकव्यवहारराज्यादि स्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतचक्रवर्ती वा तस्य प्रमाणभूतपुरुषस्याङ्गुलं प्रमाणाडलं, तच्च भरतचक्रवर्तिन आत्मांगुलं, तदा आत्माङ्गुलस्य प्रमाणाङ्गुलस्य च तुल्यत्वात् , ननु यदि भरतचक्रिणः संबन्ध्यङ्गुलं प्रमाणाङ्गुलमित्युच्यते एवं सत्युत्सेधाडलात्प्रमाणाङ्गुलं चतुःशतगुणमेव | स्यात्, न सहस्रगुणं, तथाहि-भरतचक्रवर्ती आत्मीयागुलेन किल विंशं शतमङ्गलानामनुयोगद्वारचण्योदिषु निर्णीतः, उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात् प्रतिधनुश्च षष्णवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गुलानामसौ संपद्यते, एवं च सत्येकस्मिन् प्रमाणाङ्गुले उत्सेधाङ्गुलानां चत्वार्येव शतानि भवन्ति, विंशत्यधिकशतेन प्रमाणाङ्गुलानामष्टचत्वारिंशत्सहस्रसंख्यस्योत्सेधाङ्गुलराशेर्भागापहारे एता
Jain Education Interational
For Private
Personel Use Only
www.jainelibrary.org