________________
| रम्यकमनुष्यवाला भवति तैरष्टभिर्हेमवतैरण्यवतमनुष्यवालामं तैरष्टभिः पूर्वविदेहापर विदेहमनुष्यवाला तैरष्टभिर्भरतैरवत मनुष्यवालामं, इद्द चैवं बालाप्राणां भेदे सत्यपि वालाग्रजातिसामान्यविवक्षया वालाप्रमिति सामान्येनैकमेव सूत्रे निर्दिष्टमिति, अष्टभिर्भरतैरवतमनुष्यवालामैरेका प्रतीतस्वरूपैव लिक्षा जायते, ताभिरष्टाभिरेका यूका, ताभिरव्यष्टाभिर्यवशब्दसूचितमेकं यवमध्यं, अष्टभिर्यवमध्यैरेकमुत्सेधाङ्गुलं निष्पद्यत इति इत ऊर्ध्व सूत्रानुक्तमप्युपयोगित्वादुच्यते-- एतानि षडङ्गुलान्यङ्गुलषट्कविस्तीर्णः पादस्य मध्यतलप्रदेश: पादैकदेशत्वात्पादो भवति, द्वौ च युग्मीकृतावेतौ पादौ द्वादशाङ्गुलप्रमाणा वितस्तिः, द्वे वितस्ती हस्तः, चत्वारो हस्ता धनुः, द्वौ धनुःसहस्रौ गब्यूतं चत्वारि गंव्यूतानि योजनमिति, उक्तं च- "अट्ठेव य जबमज्झाणि अंगुलं छच्च अंगुला पाओ । पाया य दो विहत्थी दो य विद्दत्थी भने हत्थो || १ || चउद्दत्थं पुण धणुहं दुन्नि सहस्साई गाउयं तेसिं । चत्तारि गाडया पुण जोयणमेगं मुणेयव्वं ॥ २ ॥” ॥ ९१ ॥ अथैकस्मिन्नुत्सेधाकुले कियन्तः परमाणवो भवन्तीत्येतदाशङ्कयाह -- ' वीसे' त्यादि, विंशतिर्लक्षाः परमाणूनां सप्तनवतिसहस्राणि शतं चैकं द्विपञ्चाशदधिकं एकस्मिन्नुत्सेधाङ्गुले एतावन्तः परमाणवो भवन्ति, इयं च संख्या 'परमाणू तसरेणू' इत्यादिगाथायां | साक्षादुपात्तानेव परमाणुविशेषानाश्रित्य द्रष्टव्या, उपलक्षणव्याख्यानलब्धोच्छ्लक्ष्णलक्ष्णिकादित्रयापेक्षया पुनरतिभूयसी परमाणु संख्या संपद्यत इति ॥ ९२ ॥ अथोत्सेधाङ्गुलोपसंहारपूर्वमात्माङ्गुलं संबन्धयन्नाह - 'परमाणु' इत्यादि, परमाण्वादिक्रमेण भणितं प्रथममुत्सेधाङ्गुलं, उत्सेधो- देवादिशरीराणामुञ्चत्वं तन्निर्णयकर्तृकत्वेन तद्विषयमङ्गुलमुत्सेधाङ्गुलं, यद्वा उत्सेधो 'अनंताणं सुदुमपरमाणुपुग्गकाणं समुदयसमिइसमागमेणं एगे बवहारपरमाणु' इत्यादिक्रमेणोच्छ्रयो - वृद्धिस्तस्माज्जातमङ्गुलमुत्सेधाङ्गुलं, यत्पुनरात्माङ्गुलं पूर्वमुद्दिष्टं वीरशेन वक्ष्यमाणस्वरूपेण विधिना प्रकारेण भाषितं - प्रतिपादितं तीर्थकुद्गणधरैः ॥ ९३ ॥ तमेव विधिमाह - 'जे जंमी' त्यादि, बे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org